________________
[पा० २. सू० ५-७.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ५४७
ऋद्धनदीवंश्यस्य ॥ ३. २. ५ ॥
ऋद्धं समृद्धम्, यस्य समृद्धिः सुशब्दादिना द्योत्यते, तदन्तस्य, नद्यन्तस्य, वंश्यान्तस्य चाकरान्तस्याव्ययीभावस्य सम्बन्धिन्याः सप्तम्याः स्थानेऽमादेशो भवति । ऋद्धं-मगधानां समृद्धिः, सुमगधं वसति, सुमद्र वसति,। नदीउन्मत्ता गङ्गा यस्मिन्नुन्मत्तगङ्ग देशे वसति, एवं लोहितगङ्गम्, शनैर्गङ्गम्, 5 तूष्णींगङ्ग वसति, द्वे यमुने द्वियमुनं वसति, एवं सष्ठगोदावरम् । वंश्य, एकविंशतिर्भारद्वाजा वंश्याः. एकविंशति भारद्वाजं वसति । एवं त्रिपञ्चाशद्गौतमम्, त्रिकोशलम्, प्रतिपदोक्तस्यैव ग्रहणादिह न भवति । उपगङ्ग, उपयमुने पूर्वेण तु विकल्पो भवत्येव । नित्यार्थं वचनम् ।। ५ ।।
न्या० स०--ऋद्धनदी०। भारद्वाजमिति भरन्तं वाजयति भरद्वाजः 'तस्येदम्'10 [ ६. ३. १६०. ] इत्यणि । बिदाद्यत्रि तु 'यात्रः' [ ६. १. १२६. ] इति लुप् स्यात् । भारद्वाजादिषु त्रिषु पूर्वपदार्थप्राधान्याद् बहुवचनं सुप् तस्याऽम् ।। ३. २. ५ ।।
अनतो लुप् ॥ ३. २. ६ ॥
अकारान्तं वर्जयित्वान्यस्याव्ययीभावस्य संबन्धिनः स्यादेर्लुब् भवति । स्त्रीषु अधिस्त्रि, उपवधु, उपकर्तृ । अनत इति किम् ? उपकुम्भात्,15 उपकुम्भाभ्याम्, उपकुम्भेभ्यः, उपकुम्भेन, उपकुम्भे। तत्संबन्धिविज्ञानादिह न भवति, प्रियोपवधुः । अत्युपवधुः ।। ६ ।।
अव्ययस्य ॥ ३. २. ७ ॥
अव्ययसंबन्धिनः स्यादेर्लुप् भवति । स्वः, प्रातः, उच्चैः, परमोच्चैः । कृत्वा। भोजभोजम् व्रजति, ततः, तत्र, कथं, ब्राह्मणवत्, पचतितराम्,20 द्विधास्ति । तत्संबन्धिविज्ञानादिह न भवति, अतिस्वरः, अत्युच्चसः। अत एव लुम्विधानादव्ययेभ्यः स्यादयोऽनुमीयन्ते । ततश्चाथो स्वस्ते गृहम्, अथोच्चैर्मम (मे) गृहमित्यादौ 'सपूर्वात्प्रथमान्ताद्वा' [२. १. ३२.] इति विकल्पेन ते मे आदेशौ पदसंज्ञा च सिद्धा भवति ॥ ७ ॥