________________
[पा० २. सू० १.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ५४५
कुले परस्परां भोजयतः, परस्परं भोजयत इत्यादि । इमे सख्यौ कुले वा अन्योन्यामन्योन्यं वा भोजयतः, सखीभिः कुलैर्वा अन्योन्यामन्योन्येन वा भोज्यते, इमे सख्यौ कुले वा इतरेतरामितरेतरं वा भोजयतः, सखीभिः कुलैर्वा इतरेतरामितरेतरेण वा भोज्यते । अपुंसीति किम् ? इमे नराः परस्परं भोजयन्ति, नरैः परस्परेण भोज्यते, नरैः परस्परस्मै दीयते ।
5 अपरोऽर्थः परस्परादीनामपुंसि प्रयुज्यमानानां संबन्धिनः स्यादेरमादेशो वा भवति । आभिः सखीभिः कुलैर्वा परस्परं परस्परेण वा भोज्यते, स्त्रीभिः कुलैर्वा परस्परं परस्परस्मै वा दीयते । अपरोऽर्थः परस्परादीनां पुंसि प्रयुज्यमानानां संबन्धिनः स्यादेरम्वा भवति । एभिर्नरैः परस्परं परस्परेण वा भोज्यते, एभिर्नरैः परस्परं परस्परस्मै वा दीयते । एवं च स्त्रीनपुंसकयोरमामौ10 द्वावादेशौ वा भवत इति त्रैरूप्यम् । इमे परस्परादयः शब्दाः स्वभावादेकत्वपुंस्त्ववृत्तयः कर्मव्यतीहारविषयाः, अस्मादेव च निर्देशात् परान्येतरशब्दानां सर्वनाम्नां द्विर्वचनादि निपात्यते ।। १ ॥
न्या० स०-परस्परान्योन्येतरेतरेति। समाहारद्वंद्वात् षष्ठी, न चान्योन्यशब्दस्य स्वराद्यदन्तत्वादल्पस्वरत्वाच्च परस्परशब्दात् पूर्वं प्रयोग आशङ्कनीयः ।15 पुर्व तस्येतरेतरशब्देन द्व परस्परशब्दस्यैवाल्पस्वरत्वादिति । इमे सख्यौ परस्परां भोजयत इति भुङक्त परस्परः कर्ता तं भुखानं सख्यौ प्रयुञ्जाते 'गतिबोध' [ २. २. ५. ] इत्यणिक्कतु: परस्परस्य कर्मत्वम्, विधानसामर्थ्यात् साम् न भवति, अन्यथा सामित्येव कुर्यात् । आभिः सखीभिः परस्परां भोज्यत इति अत्र करणे सहार्थे वा यदा तृतीया तदैको रिणग, कथं भुङक्त जनस्तं भुजानं सख्यः प्रयुखते रिणग, केन20 सह केन कृत्वा वा परस्परेणेति, यदा तु कर्तरि तृतीया, तदा रिणगद्वयं कथं भुङ्क्ते जनः तं भुखानं परस्परः प्रयुङ क्त रिणग् तं परस्परं भोजयन्तं सख्यः प्रयुञ्जते द्वितीयो णिग्, ततः कर्तरि तृतीयेति । इत्थमनुक्तस्यापि जनस्य कर्तृत्वं बोध्यमन्यथा 'गतिबोध' [ २. २. ५. ] इत्यादिना परस्परस्य कर्मत्वमेव स्यात् । अथवा प्रथमैकवचनस्यायमाम्भावः । तदभावपक्षे परस्परो भोज्यत इत्यादि द्रष्टव्यम्, एवमन्यत्रापि आमभावपक्षे 25 यथायोगमितरत् सर्वादिकार्य द्रष्टव्यम् ।
___अपरोऽर्थ इति निर्देशस्य समानत्वात् प्राप्तमन्यदर्थद्वयं दर्शयति । ननु कथमिमे सख्यौ परस्परां भोजयतः आभिः सखीभिः परस्परेण भोज्यते इति द्वयोर्बहुषु चैकवचनं कथं च स्त्रियां प्राप्न भवति, कथं चैतेषां समूदायानां सद्यिपठितानां सर्वादिकार्य सर्वादित्वे वा कथं न नपुंसकस्य 'पञ्चतोऽन्यादेः' [ १. ४. ५८. ] इति दादेश30