________________
५४४ ]
बृह इवृत्ति-लघुन्याससंवलिते
[पा० २. सू० १.]
द्विगौ-द्वे शते समाहृते द्विशती, त्रिशती । द्वन्द्व-एकश्च दश चैकादश, एवं द्वादश, त्रयोदश, सप्ततिशतम्, अशीतिशितम्, नवतिशतम् ।। १६३ ।। इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन
बृहद्वृत्तौ तृतीयस्याध्यायस्य प्रथमः पादः समाप्तः ॥ असंरब्धा अपि चिरं दुःसहा वैरिभूभृताम् ।
चण्डाश्चामुण्डराजस्य प्रतापशिखिन: कणाः ।। १ ।। न्या० स०--संख्या स० । द्वित्राश्च चत्वारश्च चतुर्बित्राः, द्विवेति समुदाय इति न संख्याकार्य, एवं चतुष्पञ्चषाः द्वौ च एकविंशतिश्चेति कृते नियमः। यदा तु एकश्च विंशतिश्च एकविंशती अप्रसिद्धा संख्या तदाऽनया सह समासे पूर्वापरभावे यथाप्राप्तं लघ्वक्षरादिसूत्रेण । द्विदशा इति ननु द्विदशा इत्यादौ 'सुज्वार्थे' [ ३. १. १६.] इत्यनेन 0 सुजर्थसमासः, ततः 'प्रथमोक्त प्राक्' [ ३. १. १४८.] इत्यनेनाऽपि सिद्ध्यति किमेषामुपादानम् ? सत्यं, यदा दशन्शब्दः सुजर्थः समस्यते तदाप्यनेनानुपूर्व्याः संख्यायाः पूर्वनिपातो भवतीति फलं कोऽर्थः ? यदा द्विर्दशेति वाक्यं, तदा 'प्रथमोक्तम' [ ३. १. १४८. ] इत्यनेनैव सिद्धम्, यदा तु दशकृत्वो द्वौ तदा फलम् । एवं त्रिदशा इत्यत्रापि दशकृत्वस्त्रय इति वाक्ये फलम् ॥ ३. १. १६३. ।।
इत्याचार्यश्रीहेमचन्द्र० तृतीयस्याध्यायस्य प्रथमः पादः समाप्तः ।
15
0 प्रथ द्वितीय: पाद:
परस्पराग्योन्येतरेतरस्याम् स्यादेर्वासि ॥ ३. २. १ ॥
परस्परादीनामपुंसि स्त्रियां नपुंसके च प्रयुज्यमानानां संबन्धिनः स्यादेः स्थाने आमादेशो वा भवति । इमे सख्यौ परस्परां भोजयतः, परस्परं भोज-20 यतः, आभिः सखीभिः परस्परां भोज्यते, परस्परेण भोज्यते, इमाः सख्यः परस्परां प्रयच्छन्ति, परस्परस्मै प्रयच्छन्ति, इमाः परस्परां परस्परस्माद्वा बिभ्यति, इमाः परस्परां परस्परस्य वा स्मरन्ति, इमाः परस्परां परस्परस्मिन्वा स्निह्यन्ति, इमे