________________
[पा० १. सू० १६२-१६३.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५४३
फाल्गुनचैत्राविति फल्गुनशब्दार गौरादित्वात् । ड्यां फल्गुनीभिश्चन्द्रयुक्ताभिर्युक्ता पौर्णमासी 'चन्द्रयुक्तात्' [ ६. २. ६. ] इत्यण् । अप्रयुक्तकालद्वारेण लुप् प्राप्नोति । चैत्रीकात्तिकीफाल्गुनीति निर्देशात् लुप् न भवति, ततः फाल्गुनी पौर्णमासी अस्येति विग्रहे ‘सास्य पौर्णमासी' [६. २. ६८.] इत्यण् । चित्राभिश्चन्द्रयुक्ताभिर्युक्ता पौर्णमासी चैत्री चन्द्रयुक्तादण । तदनु चैत्री पौर्णमासी अस्य ‘सास्य पौर्णमासी' [६. २. ६८.] 5 इत्यण् । 'अवर्णवर्णस्य' [ ७. ४. ६८. ] इति ङीलुप्, विशाखाभिर्युक्ता पौर्णमासी, अण्, चैत्रीकात्तिकीत्युपलक्षणात् लुबत्राऽपि न भवति । ब्राह्मणक्षत्रियाविति अत्रानियमः प्राप्तः। क्षत्रियवैश्यावित्यत्र त्वल्पस्वरत्वाद् वैश्यशब्दस्य पूर्वनिपातः प्राप्त: । वैश्यशूद्रावित्यत्र अप्यनियमः।
ब्राह्मणक्षत्रियविट्शूद्रा इत्यत्र त्वल्पस्वरत्वाद् विश: पूर्वनिपाते प्राप्तेऽनेन 10 ब्राह्मणादीनां मनुपूर्वं पूर्वनिपातः, अत्र आनुपूयं च जन्मकृतं यदाह
मुखतो ब्राह्मणा जाता, बाहुभ्यां क्षत्रियाः स्मृताः ।
ऊरुभ्यां तु विशः प्रोक्ताः, पद्भ्यां शूद्रो अजायत ।। १॥ न चात्राय॑त्वात् पूर्वनिपातः सिद्ध्यतीति वाच्यम् । निन्दितस्याऽपि ब्राह्मणादेः संभवादिति । बलदेववासुदेवाविति भ्रातृद्वन्द्व ऽनियमे सति इष्टपूर्वनिपाते वा प्राप्ते । 15 युधिष्ठिरभीमार्जुना इति अत्राऽपि जन्मकृतमेवानुपूर्व्यम् ।। ३. १. १६१ ।।
भतुतुल्यस्वरम् ॥ ३. १. १६२ ॥
भं नक्षत्त्रम्, तदाचि ऋतुवाचि च तुल्यसंख्यस्वरं द्वंद्व समासेऽनुपूर्वं पूर्वं निपतति । भ-कृत्तिकारौहिण्यः, अश्विनीभरणीकृत्तिकाः, मृगशिरःपुनर्वसु, ऋतुः-हेमन्तशिशिरौ, शिशिरवसन्तौ, हेमन्तशिशिरवसन्ताः । तुल्यस्वरमिति 20 किम् ? प्रार्द्रामृगशिरसी, पुष्यपुनर्वसू, तिष्यपुनर्वसू ग्रीष्मवसन्तौ ।। १६२ ।।
न्या० स०--भतु तुल्य० । अत्राऽपि नक्षत्राणामृतूनां चानुपूयं लोकप्रसिद्ध्यैव वेदितव्यम् । मृगशिरःपुनर्वसु इति अत्रोदन्तत्वात् पुनर्वसुशब्दस्य पूर्वनिपातः प्राप्तः । हेमन्तशिशिराविति लघ्वक्षरत्वाद्धि शिशिरशब्दस्य प्राप्तः ॥ ३. १. १६२. ।। संख्या समासे ॥ ३. १. १६३ ॥
25 सर्वा संख्या प्रथमोक्त त्यनियमे आनुपूर्व्याः संख्यायाः पूर्वनिपाता) वचनम्, समासमात्र संख्यावाचिनामनुपूर्वं पूर्वं निपतति । बहुव्रीहौ-द्वौ वा त्रयो वा द्वित्राः, एवं त्रिचतुराः, पञ्चषाः, द्विर्दश द्विदशाः, एवं त्रिदशाः,