________________
५४२ ]
बृहत्वृत्ति-लघुन्याससंवलिते
[पा०.१. सू० १६१.]
इति अर्थग्राहिणी श्रद्धा शब्दग्राहिणी मेधा। श्रद्धामूलत्वादभिप्रेतार्थसिद्धरय॑त्वम् ।। दीक्षातपसी इत्यादिषु तपसो लघ्वक्षरत्वेऽपि दीक्षाश्रद्धामेघानां बहूपकारत्वान्मूलभूतत्वाच्चाचितत्वात् परत्वात् पूर्वनिपातः। मातापितराविति अनुभूतग दिक्लेशत्वात् पितृतो माताभ्यहिता । एवं स्त्रीप्रधानत्वाद् विवाहस्य वरावधूरिति एवं रुद्रादावय॑त्वमूह्यम् । अध्येतृवेदिताराविति अत्र स्वरादित्वमस्ति न त्वदन्तत्वमित्यनियमः। एकस्यैव यथा- 5 प्राप्तमिति दुन्दुभिशब्दादिदन्तात् परत्वादल्पस्वरत्वात् शङ्खवीणाशब्दयोर्युगपत्पूर्वनिपातप्राप्तावेकग्रहणादेकस्यैव क्रमेण पूर्वनिपातः। शेषाणां त्विति शङ्गवीणाशब्दयोरिव युगपत् पूर्वनिपातप्राप्तौ एकस्यैव पूर्वनिपातः, दुन्दुभिरथादीनां तु कामचार इत्यर्थः, एकस्यैवेत्युक्त ऽपि दुन्दुभिरथादीनां न पूर्वनिपातः शब्दस्पर्द्धपरत्वात् । तथाहि दुन्दुभिशब्दोऽसखोदुत् शंखवीणाशब्दौ तु अल्पस्वराविति । एवमश्वरथेन्द्रा इत्यत्राऽपि10 रथशब्दो लघ्वक्षरः, अश्वेन्द्रशब्दौ तु स्वराद्यदन्तौ परौ इति तयोः पूर्वमेव पूर्वनिपातो न तु रथस्य ।
शङ्खदुन्दुभिवीणा इति 'प्राणितूर्याङ्गाणाम्' [ ३. १. १३७. ] इति बहुवचनं क्वचिदेकत्व विधेरनित्यार्थं । तेनात्रैकत्वाभावः, माङ्गल्यवाचकत्वेन शङ खशब्दस्य विवक्षत्वात् स्वैरित्यभावाद् वा। यतः तूर्याङ्गस्य तूर्याङ्गण स्वत्वं भवतीति। एवं15 मृदङ्गशङ्खपणवा इति । अथवा शङ्खदुन्दुभिवीणाः मृदङ्गशङ्खपणवा इति शङ्खादोनां तूर्याङ्गत्वादेकवद्भावः कुतो न भवतीति ? उच्यते, अत्र शङ्खादिशब्देन शङ्खादिसमुदायस्याभिधानात् तस्य चाऽतूर्याङ्गत्वादजातित्वाच्च नैकवद्भावः, उत्पलस्त्वाह तूर्याङ्गता शङ्खादिवादकानां न तु शङ्खादीनामिति तूर्याङ्गत्वादत्रैकवद्भावो यः प्राप्नोति स नाऽऽशङ्कनीयः, अत एव 'प्राणितूर्याङ्गाणाम्' [ ३. १. १३७. ] इत्यत्र पूर्वैर्मादङ्गिक-20 पाणविकं वीणावादकपरिवादकमित्येवोदाह्रियते, न तु भेरीमृदङ्गमित्यादि । तदा तु प्राणिरूपं तूर्याङ्गप्राणितूर्याङ्गमिति विग्रहः ।। ३. १. १६० ।।
मासवर्णधात्रनुपूर्वम् ॥३. १. १६१ ॥
मासवाचि वर्णवाचि भ्रातृवाचि च शब्दरूपं द्वन्द्व समासे अनुपूर्वं यद्यत्पूर्वं तत्तत्पूर्वं निपतति, अनुग्रहणादेकमिति निवृत्तम् । मास-फाल्गुनचैत्रौ,25 वैशाखज्येष्ठौ, वर्ण-ब्राह्मणक्षत्रियौ, क्षत्त्रियवैश्यौ, वैश्यशूद्रौ, ब्राह्मणक्षत्रियविशः, ब्राह्मणक्षत्रियविट्शूद्राः, भ्रातृ-बलदेववासुदेवौ युधिष्ठिरभीमार्जुनाः ।। १६१ ।।
न्या० स०-मासवर्ण। मासश्च वर्णश्च भ्राता चेति समाहारद्वन्द्वः । अनुपूर्वमिति पदार्थानतिवृत्तौ 'योग्यतावीप्सा' [ ३. १. ४०.] इति अव्ययीभावः ।30