________________
[ पा० १. सू० १६०. ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
लध्वक्षरासखीदुत्स्वराद्यद ल्पस्वरार्च्यमै कम्
[ ५४१
।। ३. १. १६० ॥
पृथग्योगाद्वति निवृत्तम्, लघ्वक्षरं सखिवजितेकारोकारान्तं स्वराद्यकारान्तमल्पस्वरमर्च्यवाचि च शब्दरूपं द्वन्द्व समासे पूर्वं निपतति, यत्र चानेकसंभवस्तत्रैकमेव । लघ्वक्षर - शरसीर्यम्, तृणकाष्ठम् । तिलमाषम् । 5 शैलौ - मलयदर्दुरौ, असखोदुत्, अग्नीषोमौ, अग्नीधूमम्, पतिसुतौ वायुतोयम्, स्वादुतिक्तौ । सखिवर्जनं किम् ? सुतसखायौ, सखिसुतौ, - ' ग्रहणवता नाम्ना न तदन्तविधि:' इति तदन्तस्य प्रतिषेधो न भवति - बहुसखि बहुधनौ, स्पर्धे परमेव, व्रीहियवौ । प्रसखीदुदित्यैकपद्यादिदुतोः स्पर्धे कामचारः - पतिवसू, वसुपती । स्वराद्यत् - अस्त्रशस्त्रम्, इन्द्रचन्द्रौ, उष्ट्रमेषम्, अश्वरथम्, ऋश्य - 10 रोहितौ । स्पर्धे परमेव-उष्ट्रखरम्, उष्ट्रशशम्, इन्द्रवायू, इन्द्राविष्ण, अर्केन्द्र, अल्पस्वर - प्लक्षन्यग्रोधौ, स्पर्धे परमेव- धवखदिरौ, वागग्नी, वाग्वायू, वागर्थों, धवाश्वकर्णौ ।
- श्रद्धामेधे, स्पर्धे परम् - दीक्षातपसी, श्रद्धातपसी, मेधातपसी, मातापितरौ वधूवरी, रुद्राग्नी, रुद्र ेन्द्रौ वासुदेवार्जुनौ लघ्वादिग्रहणं किम् ? 15 कुक्कुटमयूरौ, मयूरकुक्कुटो, अध्येतृवेदितारौ वेदित्रध्येतारौ, अश्ववृक्षौ, वृक्षाश्व । एकमिति किम् ? युगपदनेकस्य पूर्वनिपाते प्राप्ते एकस्यैव यथाप्राप्तं पूर्वं निपातः शेषाणां तु कामचार इति प्रदर्शनार्थम् - शंखदुन्दुभिवीणाः, वीणादुन्दुभिशंखाः, शंखवीणादुन्दुभयः, अश्वरथेन्द्राः, इन्द्राश्वरथाः, इन्द्ररथाश्वाः, दुन्दुभिशंखवीरणा इति रथेन्द्राश्वा इति च न भवति । कथं धनपति - 20 रामकेशवाः मृदङ्गशंखपणवाः, रामशंखशब्दयोरुत्तराभ्यां समासे सति पूर्वेण समासः । द्वन्द्व इत्येव ? विस्पष्टं पटुः विस्पष्टपटुः ।। १६० ।।
न्या० स०-- लघ्वक्षरा० । अत्र अक्षरशब्देन स्वरोऽभिधीयते । शरसीर्यमिति पाठः, शरशीर्षमिति तु पाठे 'प्राणितयं' [ ३. १. १३७ ] इति स्वैरभावात् समाहाराप्राप्तिः । ग्रहणवतेति सत्यपि 'विशेषरणमन्त:' [ ७.४. ११३. ] इति न्याय इति शेष: 125 अस्त्रशस्त्रमिति अत्र अस्त्रशब्देन सामान्यधनुरुच्यते, शस्त्रशब्देन सामान्यमायुधं ततः 'समानामर्थेन' [ ३.१.११८. ] इति नैकशेषः, अप्राणिजातित्वादेकवद्भावः । श्रद्धामधे