________________
[पा० १. सू० १५६-१५८.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५३६
गड्वादिभ्यः ॥ ३. १. १५६ ॥
वेत्यनुवर्तते, गड्वादिभ्यः शब्देभ्यो बहुव्रीहौ सप्तम्यन्तं वा पूर्व निपतति । गण्डकण्ठः, कण्ठेगडः, एवं शिरसिगडुः, गडुशिराः, शिरस्यरुः, अरुःशिराः, मध्येगुरुः, गुरुमध्यः, अन्तेगुरुः, गुर्वन्तः । व्यवस्थितविभाषया वहेगडुरित्येव भवति ।। १५६ ।।
प्रियः॥ ३. १. १५७ ॥
प्रियशब्दो बहुव्रीहौ समासे पूर्व वा निपतति । प्रियगुडः, गुडप्रियः, प्रियविश्वः, विश्वप्रियः, प्रियचत्वाः, चतुष्प्रियः ।। १५७ ।।
न्या० स०--प्रियः। प्रियगुड इति । अत्र प्रियशब्दस्य गुडादेर्वा विशेषणत्वेन नित्यमेकस्य पूर्वनिपातप्राप्तावुभयत्र प्रियशब्दस्य पाक्षिको निपातः। प्रियचत्वा इति 10 अत्र चतुःशब्दस्य संख्यात्वान्नित्यं पूर्वनिपातः प्राप्तः ।। ३. १. १५७ ।।
कडारादयः कर्मधारये ॥ ३. १. १५८ ॥
कडारादयः शब्दाः कर्मधारये समासे वा पूर्व निपतन्ति । कडारजैमिनिः, जैमिनिकडारः, गडुलगालवः, गालवगडुलः, काणद्रोणः, द्रोणकाणः, खञ्जमौजायनः, मौजायनखञ्जः, कुण्टवात्स्यः, वात्स्यकुण्टः, खेलदाक्षिः,15 दाक्षिखेलः, खोडकहोडः, कहोडखोड:, खलतिखारपायणः, खारपायणखलतिः, गौरगौतमः, गौतमगौरः, पिङ्गलमाण्डव्यः, माण्डव्यपिङ्गलः, वृद्धमनुः, मनुवृद्धः, भिक्षुकदाक्षिः, दाक्षिभिक्षुकः, बठरच्छान्दसः, छान्दसबठरः, तनुतृणबिन्दुः, तृणबिन्दुतनुः, कूटप्लाक्षिः, प्लाक्षिकूटः । कडारादीनां गुणवचनत्वात् द्रव्यशब्दानित्यं पूर्वनिपाते प्राप्ते पक्षे परनिपातार्थं वचनम् ।20 यदा तु द्वावपि गुणशब्दौ तत्र निर्मातानिआताभ्यां विशेषणविशेष्यत्वे पर्यायेण पूर्वनिपात इत्युक्तमेव । गडुलकाणः, काणगडुलः, खजकुण्टः, कुण्टखञ्जः, खोडखलतिः, खलतिखोडः, गौरवृद्धः, वृद्धगौरः, पिङ्गलभिक्षुकः, भिक्षुकपिङ्गलः, बठरतनुः, तनुबठरः । बहुवचनमाकृतिगणार्थम्-तेन नटबधिरादयोऽपि द्रष्टव्याः ।। १५८ ।।
___25