________________
[ पा० १. सू० १५४ - १५५. ]
पीतमद्यः, मद्यपीतः, पीतविषः, विषपीतः, ऊढभार्यः, भार्योढः, गतार्थः । अर्थगतः, छिन्नशोर्षः, शीर्षच्छिन्नः बहुवचनमाकृतिगरणार्थम् - तेन पीतदधिः, दधिपीत इत्यादयोऽपि भवन्ति ।। १५३ ।।
५३८ ]
बृहद्वृत्ति - लघुन्याससंवलिते
,
न्या० स० -- आहिता० ।
नन्वग्निशब्दस्य जातिवाचित्वात्,
'जातिकाल' [ ३. १. १५२. ] इत्यनेनैव सिद्ध्यति किमत्र पाठ: ? सत्यं, व्यक्तिविवक्षायामपि यथा 5 स्यादित्येवमर्थम् ।। ३. १. १५३ ।।
प्रहरणात् ॥ ३. १. १५४ ॥
प्रहरणवाचिनः शब्दात् क्तान्तं बहुव्रीहौ वा पूर्वं निपतति । उद्यतोऽसिरनेन उद्यतासिः, स्युद्यतः, कलितप्रहरणः प्रहरणकलितः, उत्खातखड्गः, खड्गोत्खातः, आकृष्टधन्वा, धनुराकृष्टः, उद्यतमुशलः, मुशलोद्यतः ।। १५४ ।। 10
न्या० स० -- प्रहरणात् । नन्वस्यादीनां जातिशब्दात् 'जातिकाल' [ ३.१.१५२.] इत्यनेनैव क्तान्तस्य पूर्वनिपात: सिद्ध: किमनेन ? सत्यं, व्यक्तिविवक्षायामपि यथा स्यादित्यर्थम्, जातिकालेत्यनेन पृथग्योग उत्तरार्थस्तेनोत्तरत्र च शब्देन प्रहरणादित्या - कृष्यते ।। ३. १. १५४ ।।
न सप्तमीन्वादिभ्यश्च ।। ३. १. १५५ ।।
नजुपादानाद्व ेति न संबध्यते, इन्द्वादेः प्रहरणवाचिनश्च शब्दात्पूर्वं सप्तम्यन्तं न निपतति बहुव्रीहौ । इन्दुमौलौ यस्य इन्दुमौलिः, चन्द्रमौलिः, शशिशेखरः, पद्मनाभः, ऊर्णनाभः, पद्महस्तः, शंखपाणिः, दर्भपवित्रपाणिः, पद्मपाणिः इत्यादि । प्रहरणात् - प्रसिः पारणावस्य असिपारिणः, दण्डपाणिः, चक्रपाणिः, शूलपाणिः, साङ्ग पारिणः, धनुष्पाणिः, धनुर्हस्तः, पाशहस्त:, 20 खड्गहस्तः । वज्रहस्तः, वज्रपाणिः । बहुलाधिकारात् पाणिवज्रः, हस्तवज्र इत्यत्र पूर्वनिपातोऽपि बहुवचनं प्रयोगानुसारणार्थम् । एवमुत्तरत्रापि ।। १५५ ।
15
न्या० स०--न सप्तमी० । ऊर्णनाभ इति 'ङयापो बहुलम्' [ २. ४. ६६.] इति ह्रस्वः, सर्वेषु उष्ट्रमुखादित्वात् समासः ।। ३. १. १५५ ।।
25