________________
[पा० १. सू० १५०.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ५३५
'शकितकि' [ ५. १. २६. ] इति ये चम्यं धनमस्य पृषोदरादिः । यद्वा चमतीति 'विदनगगन' २७५ (उणादि) चांधनः तस्यापत्यं 'अत इञ्' [ ६. १. ३१. ] ततो द्वद्वः । वैकारिमतगाजवाजमिति कर एव कारः। विविधः कारो यस्य विकारयतीति वा विकारः । तस्यापत्यमित्र , वैकारेर्मतः, गज मदने च । गजतीत्यच गजस्तस्याऽयं गाजः गाजयतीति वा अच गाजः। वजव्रजण गाजं वाजयतीत्यण गाजवाजः पुरुषविशेषस्ततो द्वद्वः। गौपालिधानपूलासमिति गोपालस्यापत्यमिति गौपालिः । स धोयतेऽस्मिन् गौपालिधानम्, पूलान् स्यति पूलासः । कुरण्डस्थलपूलासमिति कुरत् 'पिचण्डैरण्ड' १७६ (उणादि) इति कुरण्डः, कुरण्डानां स्थलं कुरण्डस्थलं, यद्वा कुत्सिता रण्डा यत्र बहुव्रीहिः, तत्र देशे तिष्ठतीति कुरण्डस्थलः। द्वौ नरौ तच्च पूलासश्च वा। ननु दारशब्दस्य बह्वर्थत्वेन द्विवचनानुपपत्तिरित्याह-दारशब्द इत्यादि । यथा धर्मप्रजासंपन्न दारे नान्यं 10 दारं कुर्वीत । एवं विष्वक्सेनार्जुनाविति यथा दारार्थशब्दस्य पूर्वनिपातः प्राप्त एवमिहापि विष्वक्सेनस्य वासुदेवरूपतया अर्जुनादय॑त्वेऽपि तदर्च्यत्वेऽपि तदविवक्षायां पूर्वनिपातार्थः पाठः। वासुदेवादन्यो वा विष्वक्सेनः । अश्मानोऽत्र सन्ति 'कोऽश्मादे:' [ ६. ४. ६७. ] अवन्तयश्चाश्मकाश्च ।
चित्रास्वाती इति। अत्र चित्रास्वातिशब्दात् 'चन्द्रयुक्तात् काले' [६. २. ६.] 15 इत्यणो 'लुप्त्त्वप्रयुक्त' ( ) इति लुपि ततस्तत्र जातेति 'भर्तुसंध्यादेरण' [६.३.८६.] इत्यणि 'चित्रारेवती' [ ६. ३. १०८. ] इति 'बहुलानुराधा' [ ६. ३. १०७. ] इति च लुपि चित्रा च स्वातिश्च । मारणविके इत्यनुप्रयोगेण नायं नक्षत्रद्वंद्व इति दर्शयति । तत्र हि ‘भतु तुल्यस्वरम्' [३. १. १६२.] इत्येव सिद्धम् । जंपती इति न चाल्पस्वरत्वादेव जम्दमोः पूर्वनिपातो भविष्यतीति वाच्यम् । पत्युरचितत्वात् पूर्वनिपातः स्यादित्यदोषः ।20 शिरोजानु इति भाष्यकारेण जानुशिरसी इत्यपि । कैय्यटेन न विचारित इत्युपेक्षितः । शिरोविजु इति । विजायते 'केवयु' ७४६ (उणादि) इत्यादिना डित्युप्रत्यये विजुः कृकाटिकाप्रदेशः। अधरबिम्बमिति अधरो बिम्बमिव 'उपमेयं व्याघ्राद्यैः' [३. १. १०२.] समासः। प्रोष्ठबिम्बमिति प्रोष्ठो बिम्बमिव ।। ३. १. १४६ ॥
विशेषणसर्वादिसंख्यं बहुव्रीहौ ॥ ३. १. १५० ॥ 25
विशेषणवाचि सर्वादि संख्यावाचि च नाम बहुव्रीहौ पूर्वं निपतति । विशेषणम्-चित्रगुः, शबलगुः, कण्ठेकालः, उरसिलोमा, उदरेमणिः, सर्वादिसर्वं शुक्लमस्य सर्वशुक्लः, सर्वकृष्णः, सर्वसारः, सर्वगुरुः, सर्वलघुः, विश्वदेवः, विश्वामित्रः, उभयचेतनः, संख्या-द्वौ कृष्णौ गुणावस्य द्विकृष्णः, द्विशुक्लः, चतुर्ह स्वः, पञ्चदीर्घः, षडुन्नतः, सप्तरक्तः, उन्नतरक्तशब्दौ न तान्तावपि तु30 गुणशब्दौ-तेन स्पर्धे क्तलक्षणः पूर्वनिपातो न भवति । शब्दस्पर्धे