________________
५३६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू १५१.]
परत्वात्सर्वादिसंख्ययोः संख्याया एव पूर्वनिपातः, त्र्यन्यः, द्वियुष्मत्क, द्वयष्मत्कः, उभयोस्तु सर्वादित्वे स्पर्धे परस्य पूर्वनिपातः-द्वयन्यः, बहुव्रीहाविति किम् ? उपसर्वम् । 'प्रथमोक्तम्' [३. १. १४८.] इत्यनियमे प्राप्ते नियमार्थं वचनम्, सर्वादिसंख्ययोविशेषणत्वेऽपि पृथग्वचनं शब्दपरस्पर्धार्थम् ।। १५० ॥
__ न्या० स०--विशेषण। कण्ठेकाल इति कण्ठे स्थिताः कण्ठेस्थिताः अलुग् सः। ततः कण्ठस्थिताः काला यस्य । अथवा कण्ठे काला अस्येति वैयधिकरण्येऽपि समासःप्राधेयं प्रत्याधारो विशेषणत्वं भजत इति वैयाकरणाः । सर्वशुक्ल इति अत्र शुक्लशब्देन सर्वार्थस्य विशेष्यमाणत्वाद् विशेषणत्वाभावेऽपि सर्वादित्वाइ सर्वशब्दस्य पूर्वनिपातः। विश्वदेव इति विश्वे देवा यस्येति विश्वदेवः। द्रव्यशब्देन विशेष्येणैव भवितव्यमिति नियमाभावात्10 सत्यपि द्रव्यशब्दत्वे देवा इति विश्वेषां विशेषणमिति सर्वादित्वाद् विश्वशब्दस्य पूर्वप्रयोगः । एवं विश्वामित्र इत्यत्रापि। द्विकृष्ण इति अत्र द्वयाद्यर्थस्य विशेष्यत्वेन विवक्षितत्वात् संख्यात्वादेव द्वयादिशब्दस्य पूर्वप्रयोगः । चतुर्हस्व इति 'ह्रस्वानि चत्वारि तु लिङ्गपृष्ठं, ग्रीवा च जङ्घ च हितप्रदानि'। पञ्चदीर्घ इति 'हनु लोचनबाहुनासिकास्तनयोरन्तरमत्र पञ्चमम्'। षडुन्नत इति 'वक्षोष्ठकक्षानखनासिकास्यं कृकाटिका15 चेति पडुन्नतानि'। सप्तरक्त इति 'नेत्रान्तपादकरताल्वधरौष्ठजिह्वा रक्ता नखाः सप्त सुखप्रदानि' । उन्नतरक्त ति उत्पूर्वनमतेरञ्जश्च 'पुत्तपित्त' २०४ (उणादि) इति निपातः ।
शब्दस्पर्धे परत्वादिति अस्याऽयं तात्पर्यार्थः अल्पस्वरत्वात् संख्याशब्दस्य पूर्वप्रयोगे प्राप्ते लक्षणातिक्रमेण 'विशेषणसर्वादिसंख्यम्' [ ३. १. १५०. ] इति निर्देश: शब्दपरस्पर्द्धार्थः तेन तत्र संख्येति सर्वादीति चोभयोः प्रसङ्ग द्वयोरन्यत्र सावकाशत्वात् परत्वात्20 संख्येति पूर्वप्रयोगो भवति । पूर्वनिपात इति सामान्येऽपि सर्वादित्वे पाठापेक्षया यः परः सर्वादिस्तेन भाव्यम् । उभयोस्त्विति संख्याशब्दस्य सर्वादित्वेऽसर्वादित्वे च पूर्वनिपात एव सूत्रे परत्रोपादानात् । द्वचन्य इति सर्वादिगणपाठापेक्षयाऽपि यातीत्युपात्तमन्यथा संख्यापेक्षयाऽपि याति । यदि वा द्वयन्य इति संख्यास्पर्द्धन सिद्धावपि गणपाठस्पोऽप्यस्तीति ज्ञापनार्थमुदाहरणदिक्त्वेनोदाहृतम् । गणपाठस्पर्धस्य तूदाहरणं संख्या-25 विमुक्त दक्षिणपूर्वा दिगित्यादि द्रष्टव्यम् । सर्वादिसंख्ययोरिति ननु सर्वादिसंख्याभ्यामारब्धेऽपि बहुव्रीहावन्यपदार्थस्यैव प्राधान्यात्तस्य च विशेष्यत्वादेतयोविशेषणत्वाद् विशेषणग्रहणेनैव भविष्यति किमर्थं पृथगुपादानमित्याशङ्का ।। ३. १. १५० ।।
क्ताः
॥ ३.१.१५१ ॥
क्तप्रत्ययान्तं सर्वं बहुव्रीहौ पूर्वं निपतति । कृतः कटोऽनेन कृतकटः,30