________________
[ पा० १. सू० १२१-१२२. ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५१३
द्वद्वलिङ्गतैव द्रष्टव्या । द्व ंद्वाभावे तु सहोक्तौ तौ कुक्कुटो मयूरीति चार्थे गम्ये तौ कुक्कुटो मयूरो चेत्येकचयोगे तौ कुक्कुटश्च मयूरी चेति चकारद्वययोगे च भवति, स्त्रीपुंनपुसकानामिति वचनात् । अंशीति तच्चार्द्धं पिप्पल्या इति श्रर्द्धकथनम् । तत् पिप्पल्यर्द्धं सा च अर्द्धपिप्पलीत्यपि कृते 'समानामर्थे' [ ३.१.११८. ] इति सूत्रेरणांशिसमासवाचिनः शेषे तस्य च परलिङ्गत्वात् तद्विशेषणानामपि तल्लिङ्गतैव । षष्ठीतत्पुरुषवाचितत्पददेशे तु उत्तर- 5 पदप्राधान्यान्नपुंसकत्वं ततः तद्विशेषणानामपि तथैव भवति । परं ते इति क्लीबे स्त्रियां च न विशिष्यते दिगम्बरसमाधिवत् । ततश्च स्वाद्व्यौ अर्धपिप्पल्यौ स्वादुनी पिप्पल्यर्द्ध इति युक्त उदाहरणे । पिप्पल्यर्द्धस्य श्रर्द्धपिप्पल्याश्च शेषत्वाभावे तद्विशेषणानामेकशेषे नपुंसकलिङ्ग स्त्रीनपुंसकानां सहेति भणनात् ।। ३. १. १२० ।।
भ्रातृपुत्रा' स्वसृदुहितृभिः ॥ ३. १. १२१ ॥
बहुवचनं पर्यायार्थम् स्वस्रर्थेन सहोक्तौ भ्रात्रर्थः शब्दो दुहित्रर्थेन सहोक्तौ पुत्रार्थ एकः शिष्यते । भ्राता च स्वसा च भ्रातरौ, सोदर्यश्च स्वसा च सोदयौं, भ्राता च भगिनी च भ्रातरौ पुत्रश्च दुहिता च पुत्रौ सुतश्च दुहिता च सुतौ पुत्रश्च सुता च पुत्रौ ।। १२१ ।।
10
त्वात्
न्या० स०-- भ्रातृपुत्राः । बहुवचनमिति ननु भातृपुत्रयोः स्वसृदुहित्रोश्च द्वयर्थ- 15 द्विवचनेन भाव्यं किमर्थं बहुवचनम् ? इत्याशङ्का, बहुवचनाऽभावे हि 'पिता मात्रा' [ ३. १. १२२. ] इतिवद् उच्चारितरूपस्य परिग्रहः स्यान्न तदर्थशब्दान्तराणाम् । बहुवचने तु द्वयोर्बहुत्वायोगात् भ्रातरश्च पुत्राश्चेति तदर्थप्रतिपत्तौ तदर्थशब्दा निद्दिश्यन्त इति । भ्रातरावित्यत्र स्त्रीपुंनपुंसकानां सहवचने स्यात् परमिति पुंलिङ्गमेव भवति । भ्रातरौ शोभनाविति, एवं च भ्राता च भ्राता च भ्रातरौ भ्राता च स्वसा च भ्रातरा - 20 वित्युभयप्रतिपत्तावपि प्रकरणादिना विशेषावगतिः । सोदर्येत्यत्र समानोदरे जातो निपातनात् समानस्य सभावो यश्च प्रत्ययः ।। ३ १. १२१ ।।
पिता मात्रा वा ।। ३. १. १२२ ॥
मातृशब्देन सहोक्तौ पितृशब्द एकः शिष्यते वा । पिता च माता च पितरौ, पक्षे - मातापितरौ । मातुरर्च्यत्वात्पूर्वनिपातः ।। १२२ ।।
25
न्या० स०-- पिता मात्राः० । पितृशब्दसाहचर्यात् संबन्धिशब्दत्वाज्जनयित्र्या एव मातुः परिग्रहो न धान्यमातुरिति ।। ३. १. १२२ ।।