________________
५१४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० १२३-१२४.]
श्वशुर श्वश्रू भ्यां वा ॥ ३. १. १२३ ॥
श्वश्रूशब्देन सहोक्तौ श्वशुरशब्द एको वा शिष्यते । श्वशुरश्च श्वश्रूश्चश्वशुरौ, श्वश्रूश्वशुरौ। द्विवचनं जातौ धवयोगे च वर्तमानयोः श्वश्र्वोः परिग्रहार्थम्, तेन-जातौ तन्मात्रभेदे 'पुरुषः स्त्रिया' [३. १. १२६.] इति नित्यविधिन भवति ।। १२३ ।।
न्या० स०--श्वशुरः। द्विवचनमिति अत एव पूर्वेण योगविभागः पितृश्वशुरौ मातृश्वश्रूभ्यां चेत्येकयोगे हि द्विवचनं श्वश्रूशब्दद्वयपरिग्रहार्थमिति विज्ञातुं न शक्यमिति । तेन जाताविति धवयोगे तु तन्मात्रभेदो न भवति । धवयोगादिलक्षणस्यार्थस्यापि भिन्नत्वात् इति जातावित्युक्तम् ।। ३. १. १२३ ॥
10
वो यूना तन्मात्रभेदे ॥ ३. १. १२४ ॥
वृद्धः पौत्रादियुवा जीवद्श्यादिः । वृद्धस्य यूना सहोक्तौ वृद्धवाच्येकः शिष्यते, तन्मात्र एव चेद्भदो विशेषो भवति, न चेत्प्रकृतिभेदोऽर्थभेदो वान्यो भवतीत्यर्थः । गार्ग्यश्च गाायणश्च गाग्यौं, वात्स्यश्च वात्स्यायनश्च वात्स्यौ, दाक्षिश्च दाक्षायणश्च दाक्षी, औपगवश्च औपगविश्च औपगवौ वृद्ध इति किम् ? गर्गश्च गार्यायणश्च गर्गगाायणौ। यूनेति किम् ? गाय॑श्च15 गर्गश्च गार्यगगौं। तन्मात्रभेद इति किम् ? गार्यवात्स्यायनौ-अत्र प्रकृतिरन्या। भागवित्तिभागवित्तिकौ-अत्र कुत्सा सौवीरदेशत्वं चान्योऽर्थः ।। १२४ ।।
न्या० स०--वृद्धो यूना० । लोकेऽपूर्ववया वृद्ध उच्यते । शास्त्रे तु व्यवहितमपत्यं पौत्रप्रभृति । ततश्च कृत्रिमाकृत्रिमयोरिति परिभाषया पौत्रप्रभृत्यपत्याभिधायिन एव20 वृद्धशब्दस्य ग्रहणं न वयोवृद्वस्य, एवं युवशब्दस्यापि । ननु ‘पौत्रादि वृद्धम्' [ ६. १. २. ] इति सूत्रे वृद्धमिति नपुसंकमत्र तु पुलिङ्गस्तत् कथं सोऽयं भवति ? उच्यते, सर्ववस्तुनः सर्वलिङ्गयोगित्वस्योक्तत्वात् स्ववाच्ये प्रसवे वृद्धशब्देन लिङ्गद्वयोपादानाददोषः ।
तन्मात्र एव चेत् भेद इति । अत्र अनयाऽपि रीत्या मात्रशब्दस्याऽवधारणं याति तावेव तन्मात्रम्, तच्चासौ भेदश्चेति । वृत्तौ तु तौ वृद्धयुवानावेव मात्र स्वभावो यस्येति 25 कर्तव्यमन्यथा प्रस्त्वं न स्यात, वद्धयवमात्र एवेत्यर्थः। गाावित्यत्र गार्ग्यश्च गार्ग्यश्च गार्याविति सिद्ध्यति, गार्यश्च गार्यायणश्चेति विवक्षायां तु द्वंद्वः स्यादिति शेषारम्भः ।