________________
५१२ ]
बृहद्वृत्ति - लघुन्याससंवलिते
[ पा० १. सू० १२०. ]
त्यदादिः ।। ३. १. १२० ॥
त्यदादि नान्येन च सहोक्तौ त्यदादिरेवैकः शिष्यते । स च चैत्रश्च तौ, यश्च मैत्रश्च यौ, प्रयं च चैत्रश्च इमौ कश्च मैत्रश्च कौ, स्पर्धे परमिति त्यदादीनां मिथः सहोत्तौ यद्यत्पाठे परं तत्तदेवैकं शिष्यते - स च यश्च यौ, यश्च एष च एतौ एष च प्रयं च एतौ स च त्वं च युवाम्, त्वं च भवांश्च 5 भवन्तौ, भवांश्च ग्रहं च आवाम्, अहं च कश्च कौ, ग्रहं च स च त्वं च वयम् । बहुलाधिकारात् क्वचित् पूर्वमपि स च यश्च तौ, अयं च एष च इमौ त्वं च भवांश्च युवाम् । त्यदादेः कृतैकशेषस्य स्त्रीपुंनपुंसकलिङ्गानां युगपत्प्रयोगात् पर्यायप्राप्तौ शिष्यमाणलिङ्गप्राप्तौ वा स्त्रीपुंनपुंसकानां सह वचने स्यात्परमिति यथापरमेव लिङ्ग ं भवति - सा च चैत्रश्च तौ, स च देवदत्ता च तौ प्रत्र 10 स्त्रीपुंसलिङ्गयोः परं पुंलिङ्गमेव भवति, सा च कुण्डे च तानि - अत्र स्त्रीनपुंसकयोः परं नपुंसकमेव भवति, स च कुण्डं च ते, - तच्च चैत्रश्च ते, -प्रत्र पुंनपुंसकयोः परं नपुंसकमेव भवति । कथं स च कुक्कुटः सा च मयूरी ते कुक्कुटमयूयौं ? उच्यते, परलिङ्गो द्वन्द्वोऽशीति समासार्थस्य लिङ्गातिदेशात् तद्विशेषणस्य त्यदादेरपि तल्लिङ्गतैव न्याय्येति ।। १२० ।।
15
न्या० स० त्यदादिः । अन्येन चेति सहोक्ताविति वर्तनात् सहार्थस्य च द्वितीयमन्तरेणाभावात् द्वितीयो लभ्यते, स च विशेषानुपादानात् त्यदादिरन्यश्च ग्रह्यते, इत्याह- त्यदादिनान्येन चेत्यादि । श्रन्यत्वं च प्रत्यासत्तेस्त्यदाद्यपेक्ष्यमेव । स च चैत्रश्चेति ननु च त्यदादेः सामान्यशब्दत्वाच्चैत्रोऽपि स चेति निर्देष्टुं शक्यो न च तावित्युक्त स च चैत्रश्चेति प्रत्ययः किन्तु स च स चेति तत्र च स्यादौ सरूपत्वात् पूर्वेणैव सिध्यतीति 20 व्यर्थोऽस्योपन्यासः ? न व्यर्थः, स च चैत्रश्चेत्येवंविवक्षायां द्वद्वः प्राप्नोतीति, तथाहितच्छब्दो यथा चैत्रव्यतिरिक्तार्थपरामर्शीति प्रकरणादिनाऽवगतं तदा गोबलीवर्द्ध वत्तच्चैत्राविति स्याद्वाक्यवत्तच्छब्दस्य वृत्तावप्यपेक्षा प्रतीयते इति द्वंद्वनिवृत्तिप्रदर्शनार्थोऽस्योपन्यास इत्यदोषः ।
पूर्व्वमपीति न केवलं तावत् स्पर्द्धे यत्परं तच्छिष्यत इति क्वचिच्च पूर्व्वमपीत्यर्थः 125 शिष्यमारणस्य लिङ्गानुशासने लिङ्गस्य चिन्तायां कृतायामपि विस्मरणशीलं प्रति स्मारयतुमाह- त्यदादेः कृतैकशेषस्येत्यादि । कथमिति यदि लिङ्गानां सहविवक्षायां परमेव लिङ्ग भवति, कथं ते कुक्कुटमयूय इति स्त्रीलिङ्गता ? इत्याशङ्कार्थः । उच्यतेइत्यादिनाऽत्र परिहारमाह-प्रयमर्थो द्वद्वस्य परलिङ्गत्वात् त्यदादेश्चात्र द्वद्वशेषत्वात्