________________
५०८ ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० १. सू० ११७.]
पुवद्भाव : कस्मान्न भवति । अथ वृत्तौ यत्सामानाधिकरण्यं तस्य व्यभिचाराभावात् । वाक्यविषयं सामानाधिकरण्यमाश्रीयते इति चेत्तदा पट्वीमृद्व्यावित्यत्राऽपि न दोषः । यतो लौकिकं यद्वाक्यं प्रयोगार्ह तत्र सामानाधिकरण्यमाश्रीयते न त्वलौकिके प्रक्रियावाक्ये पव्यौ च मृद्व्यौ चेति । प्लक्षोऽपि द्वयर्थ इति नन्वत्र प्लक्षन्यग्रोधाविति शब्दक्रमात् क्रमवदर्थानुगमान्न संभवति एकैकेनानेकस्याभिधानम् ? न, तहि द्विवचनबहुवचनानुपपत्तिः, 5 प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधा इति । यतः प्लक्षशब्दः सार्थको निवृत्तोऽन्यो न्यग्रोधशब्दः उपस्थितः । तत्र न्यग्रोधार्थप्रतिपत्तिकाले यदि प्लक्षार्थस्यावगतिर्न स्यात्तदा न्यग्रोधशब्दादेकार्थत्वादेकवचनं स्यात्तस्मात् द्विवचनबहुवचनान्यथानुपपत्त्या प्लक्षन्यग्रोधावित्यादावेककोऽनेकार्थाभिधायीत्यभ्यूपगन्तव्यम्, ततश्च एकैकेन युगपदनेकस्यार्थस्याभिधानात् प्लक्षोऽपि द्वयर्थो न्यग्रोधोऽपि द्वयर्थ इत्याह-प्लक्षन्यग्रोधावित्यत्रेत्यादि नन्वेवं तहि कथं प्लक्षश्च10 न्यग्रोधश्चेत्येकवचनान्तयोर्वाक्यं वृत्तौ प्रदर्शितं द्विवचनान्तयोहि न्याय्यम् ?
सत्यं, लौकिकमेतत वाक्यं न प्रक्रियावाक्यम, यदा त परस्परशक्त्यनुप्रवेशेन द्वद्वो भविष्यतीत्यभिधित्सयातिवाहिकशरीरस्थानीयं वाक्यं क्रियते तदा खल्वलौकिकं समीपगतपदान्तरवस्तुखचितं द्विवचनान्तयोर्वाक्यं क्रियते, यदभाष्यं सति प्रदर्शियितव्ये वरमेवं वाक्यं धवौ च खदिरौ चेति, अलौकिकत्वाच्च वृत्तौ न प्रदर्शितम् । न चैवं प्लक्षन्यग्रोध-15 योद्विकद्वयसंकल्पनेनानेकार्थत्वाद् बहुवचनं प्राप्नोतीति वाच्यं, यतो नाऽत्र चत्वारोऽर्थाः, किं तहि द्वावेवाथौं यकाभ्यामेवात्रैकः शब्दो द्वयर्थस्ताभ्यामपरोऽपि । न हि द्वाभ्यां लक्षाभ्यामविभक्तो भ्रातरौ चतुर्लक्षौभवतः । समुदायरूपो हि द्वद्वार्थः प्रत्यवयवमवयविवत् प्रतिसंक्रान्त इति, यथा वनविटपिविलोकने वनं विलोकितमित्येकैकस्तथारूपप्रतिभासभाग भवति । तदुक्त
अनुस्यूते च भेदाभ्यामेका प्रख्योपजायते । यद्वा सहविवक्षायां, तामाहुदद्वशेषयोः ।। १ ।।
20
इति । ननु लौकिकात् प्रयोगात् शब्दानामर्थावधारणं तत्र यथा घटशब्दः पटाथ न प्रत्याययति तथा प्लक्षन्यग्रोधशब्दौ परस्परार्थस्य प्रत्यायकौ न युक्तौ ? न, प्लक्षस्य शब्दस्य न्यग्रोधार्थत्वात् न्यग्रोधस्य च प्लक्षार्थत्वात् स्वार्थस्यैवाभिधानान्नैतयोरर्थान्तरा-25 भिधायित्वमुच्यते । वृत्तिविषये एकैकस्य द्वावर्थाविति स्वार्थावेव तौ। ननु परस्परसन्निधानेन यद्वयोः सामर्थ्यमाहितं तदन्यतरविगमेऽपि न हीयते वह्निनिवृत्तावपि वह्निसंपादितपाकजरूपादिवदिति प्लक्षेणोक्तत्वान्न्यग्रोधस्याप्रयोगः प्राप्नोति ? नैवं, न्यग्रोधार्थस्य प्लक्षेणाऽनुक्तत्वान्न्यग्रोधशब्दप्रयोगः । उक्त ह्य तत् द्वद्वावयवानामेवानेकार्थाभिधायित्वं न केवलानां यथा वह्निसन्निधावेव ताम्र द्रवरूपं भवति न तु तद् निवृत्ताविति ।30 एवमिहाऽपि सहभूतावेवान्योऽन्यस्यार्थमाहतुन तु पृथग्भूतौ भारोद्वाहकवत् सहभूतानां परस्परशक्त्याविर्भावादिति । ततश्च प्लक्षस्य न्यग्रोधस्य चानेकार्थत्वे यद्यपि बहुत्वं प्राप्त तथापि द्वंद्वाऽवयवत्वेन बाह्यमतो गौणं न तु मुख्यमिति न बहुवचनम् ।