________________
[पा० १. सू० ११८.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ५०६
वाक्येनाभिधानं सा सहोक्तिरिति । नन्वस्तु यथाकथंचित् सहोक्तिः समाहारे तु न संभवति तस्यैकत्वात् सहोक्त श्च भेदनिबन्धत्वादिति ? उच्यते, समाहारो हि संघातः । स च संहन्यमानानां धर्मः । संहन्यमानाश्च सहोच्यमाना एव, न पृथगुच्यमाना इति तत्रापि सहोक्तिसंभव इत्यदोषः । एकविंशतिरित्यादि संख्याद्वद्वो यद्यवयंवप्रधानस्तदैकविंशतिरिति द्विवचनं प्राप्नोति, द्वाविंशतिरिति बहुवचनम् । अथ समुदायप्रधानस्तदा 5 नपुंसकत्वं स्यादित्याऽऽशङ्का। एकविंशती इति अत्राऽपि समाहारो यदा क्रियते तदा एकत्वं स्त्रीत्वं च, यथा एकविंशतिमनयोर्देहि ।। ३. १. ११७ ।।
समानामर्थेनैका शेषः ॥ ३. १. ११८ ॥
अर्थन समानां समानार्थानां शब्दानां सहोक्तौ गम्यमानायाम् एकः शिष्यते अर्थादन्ये निवर्तन्ते, तत्र विशेषानुपादानात्पर्यायेण शेषो भवति,10 बहुवचनमतन्त्रम्-तेन द्वयोरप्येकः शिष्यते । वक्रश्च कुटिलश्च वक्रौ कुटिलौ वा, वक्रदण्डश्च कुटिलदण्डश्च वक्रदण्डौ कुटिलदण्डाविति वा, एवं लोहिताक्षौ रक्ताक्षाविति वा, सितश्च शुक्लश्च श्वतश्च सिताः शुक्लाः श्वेता वा, अर्थेन समानामिति किम् ? प्लक्षन्यग्रोधौ, धवखदिरपलाशाः, सहोक्तावित्येव ? वक्रश्च कुटिलश्च। द्वद्वापवादो योगः ।। ११८ ।।
15 न्या० स०--समाना०। समानामिति निर्धारणषष्ठ्यन्तं समुदायिसमुदायसंबन्धषष्ठ्यन्तं वा न तु स्थानषष्ठयन्तं । तत्र हि समानां स्थाने एकः शिष्यत इत्येक आदेशो भवतीति । अविशेषेऽपि यस्तदभिधाने समर्थः स एव तेषामन्यतमः स्यात् । ततश्च बिसे बिसानीति कृतसकारस्य षत्वं स्यादिति । निर्धारणषष्ठयां तु समानामित्येकसंख्याक: समानार्थो विशेष्यते । समुदायिसमुदायसंबन्धषष्ठयां च समानार्थारब्धे समुदाये समानार्थ20 एवावयवो विशिष्यत इत्यदोषः । शिषेः कर्मणि घत्रि कर्तर्यचि वा शेषः । एकः शिष्यत इति-ननु जातिः शब्देनाभिधीयते, सा चैका ततो बहूनां प्रयोगाप्राप्तौ नार्थ एकशेषेण ? न, प्रत्यर्थं शब्दनिवेशाद् द्रव्यं द्रव्यं प्रति शब्दप्रयोगादेकेन शब्देनानेकस्य द्रव्यस्याभिधानं नोपपद्यत इत्यनेकस्यार्थस्य प्रतिपादनेऽनेकशब्दानां वाचकानां प्रयोग: प्राप्नोतीति द्रव्यपदार्थदर्शने एकशेषारम्भः । अथ शेष इत्येकवचनादेक एव शेष इष्यते किमेकग्रहणेन ? 25 उच्यते, शेषस्य विधीयमानत्वेन प्राधान्यात् प्रधाने च संख्याया अविवक्षणात् द्वयोस्त्रयाणां वा शेषप्रसक्त स्तत्रापि शेषप्रक्रियागौरवापत्त्या एकस्यैव शेषस्य विधीयमानत्वेन प्राधान्यात् प्रधाने च संख्याया अपि संपत्त्यर्थमेकग्रहणं सुखार्थं वा ।
ननु समग्रमेवेदं सूत्रं नारम्भणीयं समानार्थैः शब्दैरनेकस्यार्थस्याभिधित्सायां व्यक्तावपि पदार्थे एकस्यैव तत्प्रत्यायने शक्तत्वादन्ये निवर्तन्ते उक्तार्थानामप्रयोग इति ।30 आरब्धेऽप्येकशेषे निवर्तमानार्थप्रत्यायने स्वाभाविकी शक्तिर्यावन्नानुसृता तावत् कथमसौ