________________
[ पा० १. सू० ११७.] श्रीसिद्धहेमचन्द्र शब्दानुशासने तृतीयोऽध्यायः [ ५०७
कारकारणामेकस्मिन् द्रव्येऽनेककारकाणामेकस्मिन् कारकेऽनेकद्रव्याणामेकस्मिन् धर्मिण्यनेकधर्माणां ढौकनं समुच्चय इति, यथा चैत्रः पचति च पठति चेत्यादिषु यथाक्रमं दर्शयति । एकमर्थं प्रति द्वयादीनामात्मरूपभेदेन चीयमानता समुच्चय इत्येव लक्षणमन्यस्तस्यैव प्रपञ्चः । तथा अविरोधिनामिति यथा शीतोष्णादि विरुद्धं तथा न विरुद्धा भवन्ति, यथा बाल्ययौवनादीनां नियतः क्रमः यथा च शब्दरूपरसगन्धस्पर्शानां नियतं 5 यौगपद्यं, तथा येषां नियते क्रमयौगपद्ये न भवतस्तेषामित्यर्थः ।
आत्मरूपभेदेनेति तनुप्रवृत्तिनिमित्तेनेति, अन्वाचयोऽप्येवंविध एव । इयता तु भिद्यते यत् समुच्चये समुच्चीयमानाः क्रियाकारकादिविशेषाः सर्वे तुल्यकक्षाः, अन्वाचये तु एकस्य गुणभावोऽन्यस्य प्रधानभावः । तद्यथा 'रुधां स्वराच्छ्नो न् लुक् च' [ ३. ४. ८२. ] इति, अत्र हि विधीयमानं श्नं न लोपोऽपेक्षते यत्र श्नस्तत्र न लोपो यथा 10 'भंजोंप् आमदने' भनक्ति । श्नस्तु न लोपं नापेक्षते तदभावेऽपि प्रवृत्तेर्यथा युनक्तीति । द्रव्याणामेव परस्परेत्यत्र इतरेतरयोगः परस्परापेक्षाणां क्रियां प्रति द्रव्यारणां ढौकनं, समाहारोऽपि तथैव । एतावांस्तु भेद उद्भूतावयवभेदा हि संहतिरितरेतरयोगः । प्रत एव द्वयात्मकत्वे तस्यावयवार्थगते द्वित्वे द्विवचनं चैत्रमैत्राविति । बह्वात्मकत्वे तु बहुत्वे बहुवचनं चैत्रमैत्रदत्ता इति । न्यग्भूतावयवभेदा तु संहतिः समाहारोऽतस्तस्या एक- 15 त्वादेकवचनमेव न त्ववयवगतसमाश्रयणेन द्विवचनबहुवचने, अवयवानामत्यन्तमनुमीयमानस्वरूपत्वात्, न हि यथेतरेतरयोगे उद्भूतस्वरूपोपदर्शनपूर्वकं समुदायमवयवार्था उपकुर्वन्ति तद्वत् समाहारे ।
धवश्च खदिरश्च पलाशश्च तिष्ठतीत्यत्र 'तरुतृणधान्यमृग' [ ३. १. १३३.] इति समाहारो भवति । एतावता चादीनां द्योतकानां व्युदासः । एषु चाद्ययोः सहोक्त्य - 20 भावादिति ननु समुच्चयान्वाचययोः सामर्थ्याभावादेव समासो न भविष्यति किं सहोक्ति - ग्रहणेन । तथाहि परस्परानपेक्षाणामनियतक्रमयौगपद्यानां क्रियाकारकादीनां समुच्चयो दृष्यते । यथा गामश्वमित्यत्र नयनक्रियायां गवादीनां, अन्वाचयेऽपि गौरणस्य प्रधानं प्रत्यपेक्षा न प्रधानस्य गौरणं प्रतीत्यत्र सामर्थ्याभाव: ? नैष दोषः । यतः कारकारिण क्रिययोप श्लिष्यन्ते, न परस्परेण क्रिया चौपश्लेषिका समुच्चयान्वाचययोरपि संभवति 25 तत्कथं समुच्चयेऽन्वाचये चासमर्थानि नामानि स्युः परस्परापेक्षा त्वविद्यमानापि न सामर्थ्यस्य विघातिका । सा हि न श्रौती किंतु वाक्यप्रकररणादिसमधिगम्या । तत्कथं श्रौतस्य सामर्थ्यस्य संभवे विपरीतस्य सामर्थ्यस्यासंभवः समासाप्रवृत्तौ निमित्तमिति सहोक्तिग्रहणमिति । यद्वत्तपदैरित्यादि प्रयमर्थः युगपत् द्वंद्ववाच्यं समुदायरूपं यदोच्यते तदा द्वो भवति । गामश्वमित्यादौ तु परस्परं निरपेक्षाः स्वतन्त्रा गवादयो भिन्नं रेव शब्दै : 30 पृथक् प्रत्याय्यन्त इति ।
युगपद्वाचित्वाभावात् द्वंद्वाभाव इति । यद्येवं पट्वीमृद्वय इत्यत्र एकैकेन शब्दे - नार्थद्वयस्याभिधानात्ससामानाधिकरण्यात्पु वद्भावप्रसङ्गः । प्रत्रोच्यते । अथेह दर्शनीयाया माता दर्शनीयाशब्दस्य वृत्तावेकार्थीभावान्मात्रर्थवृत्तित्वात् सामानाधिकरण्यसद्भावात्