________________
५०६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
पा० १. सू० ११७.]
पलाशं तिष्ठति, अत्र तु समूहस्य प्राधान्यात् तस्य चैकत्वादेकवचनमेव भवतिएषु चाद्ययोः सहोक्त्यभावात्समासो न भवति-उत्तरयोस्तु चार्थयोः सहोक्त विद्यमानत्वात्समासो भवति । का पुनरियं सहोक्तिः-यर्तिपदैः प्रत्येक पदार्थानां युगपदभिधानं सा सहोक्तिः । प्लक्षन्यग्रोधावित्यत्र हि प्लक्षोऽपि द्वयर्थः, न्यग्रोधोऽपि द्वयर्थः।
5 प्लक्षश्च न्यग्रोधश्चेति वाक्येऽपि चकारेणायमेवार्थः कथ्यते-उत्तरपदेन समुदायेन वा यद्वतिपदार्थानां युगपदभिधानं सा सहोक्तिरित्यन्ये । वर्तिपदार्थानामेव सह क्रियादिसंबन्धस्य यत् वाक्येनाभिधानं सा सहोक्तिरित्यपरे । एकविंशतिः द्वाविंशतिरित्यादिसंख्याद्वद्वः समुदायसंख्यैकत्वानुरोधेन विंशत्यादिवत्संख्येयमाचष्टे इतीतरेतरयोगेऽप्येकवचनान्तो भवति । समाहारेऽपि 10 चाशतावन्द्व इति लक्षणात्स्त्रीलिङ्गो भवति । संख्याद द्वादन्यत्र तु एको देवदत्ताय दीयतां विंशतिश्चैत्रायेति एकविंशती अनयोर्देहि, एवं त्रिंशश्चत्वारिंशतौ, षष्टिसप्तत्यशीतय इत्यादौ द्विवचनबहुवचनान्तता द्वन्द्वप्रदेशाः 'द्वद्वे वा' [१. ४. ११.] इत्यादयः ।। ११७ ।।
न्या० स०-चार्थे द्वंद्वः । एकग्रहणादिति तद्ध्यनेकस्य पूर्वनिपातप्रसक्तावेकस्य15 पूर्वनिपातनियमार्थं द्वयोश्च द्वद्वेऽनेकस्य पूर्वनिपातप्रसङ्गाभावादेकग्रहणमनर्थकं स्यात् । यद्वा नाम नाम्नेति व्यक्तिः पदार्थो नाश्रीयते । अपि तु जातिः, अनुवृत्तस्य हि रूपस्य यथा लक्ष्याऽनुग्रहो भवति । तथाऽर्थकल्पना क्रियते इति बहूनामप्ययं समासः । इत्येव स्यादिति पूर्वपदस्योत्तरपदे प्रत्येकं 'या द्वद्वे' [२. २. ३६.] इत्याकारः स्यादित्यर्थः । उद्गातार इत्यत्र मतान्तरेण पारादेशः । ग्रामो ग्राम इति अत्र च वीप्सायां सहोक्तिसंभवेऽपि20 चार्थाभावात् द्वद्वाभावः। सहोक्ताविति किमिति-यत्र समासे द्वयोर्द्धर्मयोमिणोर्वा भिन्नयो: प्राधान्यं विवेद्यते सा सहोक्तिः, कर्मधारये तु धर्मिण आश्रयस्यैव प्राधान्यात्तस्य चैकत्वमतः खजकुण्टादौ न सहोक्तिः ।
प्लक्षश्च न्यग्रोधश्च वीक्ष्यतामिति पूर्ववेत्थं संबन्धः, इतरेतरयोगे तिष्ठतः कस्कः प्लक्षश्च न्यग्रोधश्च समाहारे तु प्लक्षश्च न्यग्रोधश्चेति समुदायस्तिष्ठति, इह तु प्रत्येक 25 क्रियया संबन्ध इति सहोक्त्यभाव इत्यर्थः । इह समुच्चयेति अत्र चार्थस्यानुवादेन द्वद्वो विधीयते, अप्रसिद्धस्वरूपस्य चानुवदनं नोपपद्यते, अतस्तत्स्वरूपं प्रदर्शयति, चार्थानां लक्षणपूर्वमुदाहरणन्याह-तत्रैकमर्थं प्रतीत्यादि अर्थः क्रियाकारकद्रव्यरूपः। द्वयादीनां कियाकारकद्रव्यगुणानामिति तत्रैकस्मिन् कारकेऽनेकक्रियाणामेकस्यां क्रियायामनेक