________________
[पा० १. सू० ११७.]
श्रोसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ५०५
कुण्डिनीशब्दे ग्रहादित्वात् णिनि ङ्यामपत्ये गर्गादियत्रि 'कौण्डिन्यागस्त्ययो:'
६.१.१२७.] इति निर्देशात प्रवद्धावाभावे सिद्धम। सर्व निपातनात सिद्धमिति निपात्यन्ते गम्यन्तेऽनुरूपाण्यविहितान्यपि लक्षणान्यस्मिन्निति निपातनं सूत्रे लक्ष्यस्य स्वरूपेणोपादानमिति ।। ३. १. ११६ ।।
चा) वंद्वः सहोक्तौ ॥ ३. १. ११७ ॥
नाम नाम्ना सह सहोक्तिविषये चार्थे वर्तमान समस्यते, स च समासो द्वद्वसंज्ञो भवति । प्लक्षश्च न्यग्रोधश्च-प्लक्षन्यग्रोधौ, एवं धवाश्वकणौं, वाक्च त्वक्च-वाक्त्वचम्, छत्रोपानहम्, नाम नाम्नेत्यनुवर्तमानेपि 'लघ्वक्षरा'[३. १. १६०.] दिसूत्रे एकग्रहणाद्बहूनामपि द्वंद्वो भवति-धवश्च खदिरश्च पलाशश्च धवखदिरपलाशाः-एवं होतृपोतृनेष्टोद्गातारः, द्वयोर्द्व योर्द्वन्द्व हि10 होतापोतानेष्टोद्गातारः इत्येव स्यात्, पीठच्छत्त्रोपानहम्, चार्थ इति किम् ? वीप्सासहोक्तौ माभूत्, ग्रामो ग्रामो रमणीयः । सहोक्ताविति किम् ? प्लक्षश्च न्यग्रोधश्च वीक्ष्यताम्, वाक् च त्वक् च गृह्यताम्, खजश्चासौ कुण्टश्च खञ्जकुण्टः, इह समुच्चयान्वाचयेतरेतरयोगसमाहारभेदाच्चत्वारश्चार्था:-तत्रैकमर्थं प्रति व्यादीनां क्रियाकारकद्रव्यगुणानां15 तुल्यबलानाम् अविरोधिनामनियतक्रमयोगपद्यानाम् आत्मरूपभेदेन चीयमानता समुच्चयः-यथा चैत्रः पचति पठति च, चैत्रो मैत्रश्च पठति, राज्ञो गौश्चाश्वश्च, राज्ञो ब्राह्मणस्य च गौः, शुक्लश्चायं कृष्णश्च, नीलं च तदुत्पलं चेतिचशब्दमन्तरेणापि चायं संभवति, यथाहरहर्नयमानो गामश्व पुरुष पशु वैवस्वतो न तृप्यति सुराया इव दुर्मदी ।
20 गुणप्रधानभावमात्रविशिष्ट: समुच्चय एवान्वाचयः-यथा वटो भिक्षामट गां चानय, स हि भिक्षां तावदटति यदि च गां पश्यति तामप्यानयति । द्रव्याणामेव परस्परसव्यपेक्षाणामुद्भूतावयवभेदः समूह इतरेतरयोगःयथा चैत्रश्च मैत्रश्च घटं कुर्वाते, चैत्रमैत्रौ घटं कुर्वाते, चैत्रश्च मैत्रश्च दत्तश्च पटं कुर्वन्ति, चैत्रमैत्रदत्ताः पटं कुर्वन्ति,-अत्रावयवानामुद्भूत-25 त्वात्तत्संख्यानिबन्धनं द्विवचन बहुवचनं च भवति, स एव तिरोहितावयवभेदः संहतिप्रधानः समाहारः । धवश्च खदिरश्च पलाशश्च तिष्ठति, धवखदिर