________________
५०४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू ११६.]
पा
भवन्ति । कपई इति पर्दतेरचि कुत्सितः पर्दः पृषोदरादित्वात् कुशब्दस्य कभावे । कृन्धिविक्षरणेत्यत्र कृन्धीत्यत्र 'धुटोधुटि' [ १. ३. ४८. ] इति तलोपे समासे सति निपातनात् 'इ उ' इत्यवयवयोरकारः । ततः स्त्रीलिङ्गत्वादाप् ।
उन्मजावमजेति पाख्यातयोः क्रियासातत्ये समासस्य वक्ष्यमाणत्वादसातत्यार्थोऽयमारम्भः, बहुव्रीहौ कच्प्रत्ययप्रसङ्गः स्यात् । 'पाख्यातमाख्यातेन सातत्ये' ( ) इति 5 सूत्रं शाकटायनस्य । ह्यन्तं स्वकर्मणेत्यादि पाणिनीयं सूत्रमेतत् । 'गतप्रत्यागतादयः' ( ) पाणिनेरिदमपि सूत्रम् । 'शाकपार्थिवादयः' ( ) शाकटायनसूत्रम् । मोदतेति आत्मनेपदस्यानित्यत्वात् परस्मैपदम्, 'मुदण्संसर्गे' विकल्पणिजन्ताद् वा, इहपञ्चमीत्यत्र निपातनात् ह्रस्वत्वाभावः । एहिरेयाहिरा इत्यत्र निपातनादेकारस्याकारः, एवमन्यत्राऽपि । प्राहोपुरुषिका इत्यत्र निपातनाच्चौरादित्वाद् वाऽकत्र , अहोपुरुष आत्मसंभावितत्वात्तस्य 10 भावः क्रिया आहोपुरुषिकोच्यते। अहं पूर्विकेत्यत्र अहंशब्दो विभक्त्यन्तप्रतिरूपको निपातः । अहं पूर्वमहं पूर्वमहं पूर्व प्रवर्ते इत्यर्थः । निपातनादकञ्यपि वृद्ध्यभावः । एवमहंप्रथमिकादयोऽपि । निश्चप्रचा इत्यत्र एषु सर्वेषु यल्लक्षणेनानुपपन्नं तत्सव्वं निपातनात् कर्त्तव्यम् । जोडमिति 'जुडण् प्रेरणे' इत्यतोऽचि जोडो दासः, स्तम्भेः 'स्तम्बतुम्बादयः' ( ) इति बे निपातनात् भ-लोपे स्तम्बः । स्नात्वाकालक15 इत्यत्र कालात् कप् प्रत्ययः। पीत्वास्थिरक इत्यत्र तु निपातनात् कः। भुक्त्वासुहित इत्यत्र यो यत्किंचिदशित्वा तृप्तो भवति, स एवमुच्यते ।
उत्पत्यपाकला लताविशेषः, एवं सर्वत्राप्यभ्यूह्यम् । प्रोष्यपापीयानिति प्रवसतेः । क्त्वि यबादेशे य्वति 'घस्वसः' [ २. ३. ३६. ] इति षत्वे, निषद्यश्यामान्तेषु स्नात्वाकालकादिष्वैकार्थ्याभावात् 'अव्ययं प्रवृद्धादिभिः' [ ३. १. ४८ ] इति नियमात्20 क्त्वाप्रत्ययस्याव्ययस्य समासाप्राप्तावनेनाऽयं समासो निपात्यते । निषण्णश्यामेति 'विशेषणं' [ ३. १. ६६. ] इति समासे पूर्वनिपातेऽनियमः स्यात् । निश्चत्वचम् इत्यत्र त्वचशब्दोऽकारान्तोऽप्यस्ति अकिंचनमिति नत्र स्याद्यन्तेन समास प्रारभ्यमाणः समुदायस्यानामत्वात् स्याद्यन्तत्वाभावान्न समासाप्रवृत्तावनेन समासः । गतप्रत्यागतम् इत्यत्र एकदेशस्य प्रत्यागतत्वात् । एवं पूर्वं यातं पश्चादनुयातमिति ।
यातानुयातम् । फलाफलिका इत्यत्र एषु सर्वेष्वत एव निपातनात् पूर्वपदस्य दीर्घत्वम् । अत्रावयवधर्मेण समुदायव्यपदेशात् सामानाधिकरण्यात् विशेषणसमाससिद्धावत्र पाठस्य फलमाह-एग्वित्यादि शाकप्रिय इत्यत्र, कुत्सितं तपतीत्यचि कुते: सौत्रात् "भुजिभृति' ३०५ (उणादि) इत्यपे वा कुतपं मृगाजिनं, गोरोममयं केचित् कम्बलं कुतपं विदुस्तद्वस्त्रं यस्य । अजातौल्वलिरित्यत्र 'तुलण उन्माने' णिजन्तात् 30 'तुलवले' ५०० (उणादि) इति किति वल प्रत्यये णिज्लोपे निपातनाद् गुणाभावे तुल्वलस्तस्यापत्यम् 'अत इज' [६. १. ३१.] । आरिणमाण्डव्य इत्यत्र आरिणशब्द आटिपर्यायादिषु वर्तते । विदर्भो कौण्डिन्य इत्यत्र विदर्भशब्दात् गौरादित्वात् ङोप्रत्ययः ।
25