________________
[पा० १. सू० ११६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ५०३
शतम्, द्विशतम्, दध्युपसिक्त प्रोदनो दध्योदनः, एवं घृतौदनः, गुडमिश्रा धाना गुडधानाः, एवं तिलपृथकाः, अश्वयुक्तो रथ:-अश्वरथः, एवं गजरथः, घृतपूर्णो घटः-घृतघटः,-अत्र शाकपार्थिवादिषु प्रियादेरुत्तरपदस्य लोपः ।
तृतीयो भागः त्रिभागः, तृतीयभागः त्र्यंशः तृतीयांशः, षड्भागः षष्ठभागः, षडंशः, षष्ठांशः, त्रिदिवं, तृतीय दिवम्, त्रिविष्टपं, तृतीयविष्टप- 5 मित्यादिषु पूरणप्रत्ययस्य वा लुग् भवति । तथा सर्वेषां श्वेततरः-सर्वेश्वेतः, एवं सर्वमहान्-अत्र गुणेन तरबन्तेन निर्धारणषष्ठीसमासस्तरब्लोपश्च, एवमविहितलक्षणस्तत्पुरुषो मयूरव्यंसकादिषु द्रष्टव्यः । यच्चेह लक्षणेनानुपपन्न तत् सर्वं निपातनात्सिद्धम् । इतिशब्दः स्वरूपावधारणार्थः-तेन परमो मयूरव्यंसक इति समासान्तरं न भवति । उत्तरपदेन भवत्येवेत्यन्ये-मयूर-10 व्यंसकप्रिय इत्यादि । बहुवचनमाकृतिगणार्थम्, तेन-विस्पष्टं पटुः-विस्पष्टपटुः, पुना राजा-पुनाराजः, एवं पुनर्गवः, पादाभ्यां ह्रियत इति पादहारकः, गले चोप्यत इति गलेचोपकः, सायंदोहः, प्रातर्दोहः, पुनर्दोहः, सायमाशः, प्रातराश, इत्यादयो द्रष्टव्याः ।। ११६ ।।
___न्या० स०--मयूरव्यंसक०। तत्पुरुषसमासा इति कर्मधारयसमासा इत्यपि 15 द्रष्टव्यम् । निपात्यन्त इति अत्र यादृशाः पठितास्तादृशाः एवाऽभ्यनुज्ञायन्ते साधुत्वेन, तेन लक्षणानन्वितहष्टकार्याणामपि साधुत्वं प्रति विचिकित्सा न कार्येत्यर्थः, व्यंसयतीति मतान्तरेण दन्त्यः । मयूरव्यंसक इति प्रथमव्युत्पत्तौ तथाभूता मयूरप्रकृतिरुच्यते, यदा तु व्यंसयति छलयति चुरादेपर्णक: क्रियते तदा यो लुञ्चकानां मयूरो गृहीतशैक्षो भवति अन्यानन्यान् मयूरान् छलयति स उच्यते । तदरूपेण लोकस्याऽपि वञ्चकः, व्यंसको20 विशेषणं मयूरो विशेष्यमिति विशेषणसमासे प्राप्ते मयूरव्यंसक इत्ययं समास इति दर्शयति । कम्बोजमुण्ड इति कम्बश्चासौ जश्व बाहुलकात् विभक्तरलुप्, मुण्डनं मुण्डः । सोऽस्यास्तीति अभ्राद्यः, कंबोजयवनशब्दाभ्यामपत्ये 'राष्ट्रक्षत्रियात्' [ ३. १. ११४. ] इत्यत्रः 'शक्रादिभ्यो द्रेः' [ ६. १. १२०.] इति लोपः । एवं च गोत्रं च चरणः सहेति जातित्वमनयोरित्यत्रापि गुणशब्दस्य पूर्वनिपाते प्राप्ते जातिशब्दस्य पूर्वनिपातार्थोऽ-25 यमारम्भः । एहि इडे स्त्रि इतीत्यत्र ‘म्लेच्छीडेह्र स्वश्च वा' ३ (उणादि) इति अप्रत्यये वा ह्रस्वत्वे इडा इला स्त्रीत्यर्थः, यथा महती इला महेलेति, तदामन्त्रणमिडे इति । अनुकार्यानुकरणयोर्भेदे विभक्तिरपि शब्दरूपेति 'अनतो लुप्' [ १. ४. ५६. ] अथवा न दीयते विभक्तिः । एहि स्वागता इत्यत्र स्वाङ पूर्वात् गमे वे क्तः । तत एहि स्वागतमिति यस्यामिति बहुव्रीहिः । एहिप्रघसेत्यादिषु प्रात्तीत्यादिवाक्ये घस्लादेशे संबोधने वाक्यानि30