________________
५०२ ]
बृहद्वृत्ति - लघुन्याससंवलिते
[ पा० १. सू० ११६. ]
साहंपूर्विका, एवमहं प्रथमिका, अहमहमिति यस्यां साहमहमिका, विकृतं च प्रकृतं च यस्यां सा विचप्रका, निश्चितं च प्रचितं च यस्यां सा निश्चप्रचा, या इच्छा यस्यां सा यदृच्छा, एषु सर्वेषु क्रियैवान्यपदार्थ: । ' ह्यन्तं स्वकर्मणा बहुलमाभीक्ष्ण्ये कर्तरि समासाभिधेये' - जहि जोडमित्यभीक्ष्णं य ग्राह स उच्यते जहिजोडः। एवमुज्जहिजोडः, जहिस्तम्बः, उज्जहिस्तम्बः, कुरुकटः बहुलवचनान्न 5 च भवति-पचौदनमित्यभीक्ष्णमाह, स्नात्वा कालीभूतः स्नात्वाकालकः, एवं पीत्वास्थिरकः, भुक्त्वासुहितः, प्रोष्य विप्रयुक्तो भूत्वा पापीयान्निःस्नेहो भवति स प्रोष्यपापीपान्, उत्पत्याकाशे भूत्वा या पाकला पाण्डुर्भवति सोत्पत्यपाकला, निपत्य भूमौ निपतिता रोहिणी या रक्ता भवति सा निपत्यरोहिणी, निषद्य निषण्णा सती श्यामा जाता निषद्यश्यामा, निषण्णा श्यामा जाता निषण्ण - 10 श्यामा, उदक् चावाक् च उच्चितं चावचितं चेति वा उच्चावचम्, उच्चैश्च नीचैश्च उच्चितं च निचितं चेति वा उच्चनीचम्, प्रचितं चोपचितं च प्राचोपचम्, प्राचितं च अवचितं च प्राचोवचम्, प्राचितं च पराचितं च अर्वाक् च परस्ताच्चेति वा चपराचम्, निश्चितं च प्रचितं च निश्चप्रचम्, निष्कुषितं च निस्त्वचं च निश्चत्वचम् न भवति किंचन न क्वचिदुपयुज्यत 15 इति अकिंचनम्, नास्य कुतोऽपि भयमस्तीत्यकुतोभयम्, 'गतप्रत्यागतादय:'गतं च तत्प्रत्यागतं च गतप्रत्यागतम्, एवं यातानुयातम्, महान्क्रयोऽल्पः ऋयिका क्रयावयवयोगात् क्रयः क्रयिकावयवयोगात् क्रयिका क्रयश्चासौ क्रयिका च क्रयक्रयिका समुदायः, एवं पुटापुटिका, फलाफलिका, मानोन्मानिका, - एषु व्यवस्थित पूर्वोत्तरपदसमासः ।
J
20
'शाकपार्थिवादयः' - शाकप्रियः शाकभोजी शाकप्रधानो वा पार्थिवःपृथोरपत्यं शाकपार्थिवः, पृथिव्या ईश्वरः पार्थिवः इति वा तेन शाकपार्थिवः कुतपवस्त्रसौश्रुतः, सुश्रुतोऽपत्यं सौश्रुतः, कुतपसौश्रुतः प्रजापण्यस्तौल्वलिः, अजातौल्वलिः, यष्टिप्रहरणो यो मौद्गल्यः यष्टिमौद्गल्यः, एवं परशुरामः, घृतप्रधाना रोटिः घृत रोटि:, एवमोदनपाणिनिः, आणिमाण्डव्यः बलाकाकौशिकः, 25 विदर्भीकौण्डिन्यः, सहस्रबाहुरर्जुनः सहस्रार्जुनः, त्र्यवयवा विद्या त्रिविद्या, एकाधिका दश एकादश, एवं द्वादश, षोडश, एकविंशतिः, द्वाविंशतिः, एक