________________
[पा० १. सू० १११.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ४६७
कालापश्रोत्रियः, श्रोत्रियश्छन्दोऽध्यायी, कठाध्यायकः, कालापाध्यायकः, अध्यायकोऽध्येता, मृगधूर्तः गार्ग्यधूर्तः,-'निन्द्यं कुत्सनैः'-[३. १. १००.] इत्यत्र शब्दप्रवृत्तिनिमित्तकुत्सायां समास उक्त इह तु तदाश्रयकुत्सायां समासो यथा स्यादिति धूर्तग्रहणम् । प्रशंसायां रूढा मतल्लिकादय आविष्टलिङ्गास्तैः समासः,-गौश्चासौ मतल्लिका च गोमतल्लिका, एवमश्वमतल्लिका, गोमचचिका, 5 गोप्रकाण्डम्, पुरुषोद्घः, गोकुमारी, अश्वकुमारी, गोतल्लजकः, कुमारतल्लजकः, तातपादाः, आर्यमिश्राः, केशपाशः, केशहस्तः, अंसभित्तिः, वक्षस्थलम्, कपोलपाली, उरःकपाटः, स्तनतटम्, रूढग्रहणादिह न भवति, गौः रमणीया, गौः शोभना, जातिरिति किम् ? देवदत्ता पोटा, कालाक्षी वशा, चैत्रः प्रवक्ता, मैत्रो मतल्लिका, विशेष्यस्य जातेः पूर्वनिपातार्थं वचनम् ।। १११ ।। 10
न्या० स०--पोटायुवति। वृन्दारकयुवतिरिति अत्र 'वृन्दारकनागकुञ्जरैः' [३. १. १०८.] इति बाधित्वा परत्वादऽयमेव विधिः । अग्निस्तोकमिति स्तोचनं भावे घनि न्यङ क्वादित्वात् कत्वे स्तोकः । सोऽस्यास्तीत्यत्राभ्राद्यप्रत्यये स्तोकम् । भिन्नलिङ्गयोरपि सामानाधिकरण्यं वरं विरोध इतिवत् । सामान्यविशेषभावेनाऽयं प्रयोगः । तेनाऽग्निस्तोक इत्यपि । वेहदिति विहन्ति गर्भमिति 'संश्चत्' ८८२ (उणादि) इति15 निपातः । बष्कयिणीति बस्कतेरधिपृषोदरादित्वात् 'निष्कतुरष्क' २६ (उणादि) इति वा बष्का तां यातीति ये बष्कयः प्रौढवत् सः, सोऽस्या अस्ति । तदाश्रयकुत्सायामिति न चात्र कठप्रोक्तग्रन्थाऽध्येतृत्वं वेदितृत्वं वा कठशब्दप्रवृत्तिनिमित्तं तेन कुत्स्यते, किं तर्हि प्रवृत्तिनिमित्तावच्छिन्नमभिधेयम् । प्रशंसायामिति-असति तु रूढग्रहणे जातिगुणशब्दा अपि परं स्तोतुमुपादीयमानाः प्रशंसायां वर्तन्ते इति तेऽपि गृह्य रन् । आविष्टलिङ्गा इति20 उपलक्षणत्वादाविष्टवचनाश्च तेन तातश्च ते पादाश्चेति सिद्धं । आविष्टं आगृहीतमपरित्यक्त स्वं लिङ्ग यैः । लिङ्गान्तरसंबन्धेऽपि न विशेष्यलिङ्गमुपाददते ।
मतल्लिकेति मया लक्ष्म्या तल्लातीति 'कुशिक' ४५ (उणादि) इति निपातः । मचिकेति मां लक्ष्मी चर्चयतीति के 'ङ यापो वा' [ २. ४. ६६. ] इति ह्रस्वत्वे । प्रकाण्डमिति प्रकृष्टतया कण्यते 'कण्यरिण' १६६ (उणादि) इति णिति डे। गोमतल्लि-25 कादयो नित्यसमासाः परमर्थप्रदर्शनार्थमलौकिकं वाक्यं क्रियते । न हि वाक्येन पूजा गम्यते। कुमारी इत्यत्र वयोऽभावात् गौरादित्वात् 'डी' प्रत्ययः । तल्ले आख्यातसरसि जातः सप्तम्या डे तल्लजः । तस्य तुल्ये कप्रत्यये तल्लजकः । यदा द्विरूपो जकारस्तदा लज्जते कर्तरि एकः, स लज्जको यस्य असौ तल्लज्जकः । रूढग्रहणादिति रूढग्रहणस्योक्तरूपमतल्लिकादिपरिग्राहकत्वाद् रमणीयशोभनशब्दयोश्च रमणीयत्वादिगुणमुपादाय 30 प्रशंसायां वर्तमानात्वादाभ्यां जातिर्न समस्यत इति ।। ३. १. १११ ॥