________________
४६८ ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० १. सू० ११२-११४.]
चतुष्पाद्गभिण्या ॥ ३. १. ११२ ॥
चत्वारः पादा यस्याः सा चतुष्पाद्गवादिजातिः । तद्वाचिनामैकार्थं गभिण्या गर्भिणीति नाम्ना सह समस्यते स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । गौश्चासौ गभिरणी च गोगभिरणी। एवमजभिणी। अश्वभिणी। महिषगर्भिणी। चतुष्पादिति किम् ? 5 ब्राह्मणी गर्भिणी, जातिरित्येव ? कालाक्षी गर्भिणी, स्वस्तिमती गर्भिणी, संज्ञाशब्दाविमौ । जातेविशेष्यस्य पूर्वनिपातार्थं वचनम् ।। ११२ ।।
न्या० स०--चतुष्पाद । ब्राह्मणो गभिणीति समासे हि सति ब्राह्मणीशब्दस्य पुवभावः स्यात् । संज्ञाशब्दाविमाविति एतौ चतुष्पादमाहतुर्न तु जाति ॥ ३.१.११२ ।।
युवा खलतिपलितजरद्वलिनैः ॥ ३. १. ११३ ॥ 10
युवन्नित्येतन्नामैकार्थं खलत्यादिभिर्नामभिः सह समस्यते, स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । युवा चासौ खलतिश्च युवखलतिः, एवं युवपलितः, युवजरन्, युववलिनः, वलयोऽस्य सन्ति वलिनः, अङ्गादित्वान्नः । नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति युवतिश्चासौ खलतिश्च युवखलतिः, एवं युवपलिता, युवजरती, युववलिना। युवशब्दस्य15 विशेष्यत्वात्परनिपाते प्राप्ते द्वयोर्वा गुणवचनत्वात्खञ्जकुण्टादिवदनियमे पूर्वनिपातार्थं वचनम् ।। ११३ ।।
__ न्या० स०-युवा०। युवजरनिति अत्र जरत्युत्साहादियुवधर्मोपलम्भात् यूनि वालस्यादिजरधर्मोपलम्भात् तद्रूपारोपात् सामानाधिकरण्यम् । विशेष्यत्वादिति विशेष्यो युवा शब्दोऽनया रीत्या युवत्वमग्रेऽपि प्रसिद्धं । ततो युवशब्देन पुरुष एवाभिधीयते,20 ततस्तस्य खलतीत्यादि विशेषणं ततः परनिपाते प्राप्ते । अथवा द्वयोरपि गुणवचनत्वं तदा युवत्वमप्रसिद्धं ततो युवशब्देन युवत्वविशिष्टो नरोऽभिधीयते, ततो गुणवचनत्वात् कामचारेण पूर्वनिपाते प्राप्ते । अथवा द्वयोरपि पूर्वनिपातनार्थं वचनमिति ॥ ३.१.११३ ।।
कत्यतुल्याख्यमजात्या ॥ ३. १. ११४ ।। कृत्यप्रत्ययान्तं तुल्याख्यं च तुल्यपर्यायं नामैकार्थमजात्याजाति-25