________________
४६६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
पा० १. सू० ११०-१११.]
गोत्रं, ततो गोत्रं च चरणैः सहेति जातिः। कुण्डलीति ज्योत्स्नाद्यणप्राप्तौ 'शिखादिम्य । इन्' [७. २. ४.] ।। ३. १. १०६ ।।
किं क्षेपे ॥ ३. १. ११० ॥
क्षेपो निन्दा, तस्मिन् गम्यमाने किमित्येतन्नामैकार्थमर्थात्क्षिप्यमाणवाचिनाम्ना सह समस्यते, स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । 5 को राजा किंराजा यो न रक्षति, एवं किंगौर्यो न वहति, किंसखा योऽभिद्र ह्यति, स किंवैयाकरणो यः शब्दं न ब्रूते,-सर्वत्र तत्कार्याकरणात् क्षेपो गम्यते, तथा कुत्सितो नरोश्वमुखत्वात् किंनरः, एवं किंपुरुषः, कुत्सितः शुकः किंचिन्नीलत्वात्किशुकः पलाशः, एवं किजल्कः, किंकिरातमित्यादि'न किमः क्षेपे' [७. ३. ७०.] इति समासान्तप्रतिषेधः। क्षेपे इति किम् ? 10 को राजा मथुरायाम् । 'विशेषणं विशेष्येण'-[३. १. ६६.] इत्येव सिद्धे क्षेपे एवेति नियमार्थं वचनम् ॥ ११० ॥
न्या० स० --कि क्षेपे। जल्कश्चूर्णः-किरातं । काञ्चनारवृक्षस्य पुष्पमित्यर्थः ।। ३. १. ११०॥
पोटायुवतिस्तोककतिपयगुष्टिधेनुवशावेहबष्कयणी-15 प्रवक्तुश्रोत्रियाध्यायकधूर्तप्रशंसासदैर्जा तिः ॥ ३. १. १११ ॥
जातिवाचि नामैकार्थं पोटादिभिर्नामभिः प्रशंसारूढेश्च सह समस्यते, स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । इभ्या च सा पोटा च इभ्यपोटा, आर्यपोटा, पुरुषवेषवारिणी स्त्री पोटा गर्भ एव दास्यं प्राप्ता वा उभयव्यञ्जना वा भुजिष्यदासी वा, इभ्या चासौ युवतिश्च इभ्ययुवतिः,20 नागयुवतिः, वृन्दारकयुवतिः, अग्निश्चासौ स्तोकं च अग्निस्तोकम्, विषस्तोकम्, दधि च तत् कतिपयं च दधिकतिपयम्, तक्रकतिपयम्, गौश्चासौ गृष्टिश्चेति गोगृष्टिः, अजगृष्टिः, गृष्टि: सकृत्प्रसूता, गोश्चासौ धेनुश्च गोधेनुः, अजधेनुः, धेनुर्नवप्रसूता, गोवशा, अजवशा, वशा वन्ध्या, गोवेहत्, अजवेहत्, वेहद्गर्भघातिनी, गोबष्कयणी अजबष्कयिणी,-बष्कयेण वृद्धवत्सेन या दुह्यते सा25 बष्कयिणी, कठप्रवक्ता कालापप्रवक्ता, प्रवक्ता उपाध्यायः, कठश्रोत्रियः,