________________
२०]
बृहद्वृत्ति - लवन्यास संवलिते
चर्मायते, पदत्वान्नलोपः । नमिति किम् ? सामनि साधुः सामन्यः । एवं वेमन्यः । वचनम् ।। २२ ।
[पा० १. सू० २३-२४.]
वाच्यति । क्य इति किम् ? प्रयिति प्रतिषेधात् पूर्वेणाऽप्राप्ते
न्या० स० नं क्य० - 'क्ये' इति सामान्यनिर्देशेऽपि क्या-क्यपोर्नामाधिकारेण व्यावर्तितत्वाद् अन्यस्य निरनुबन्धस्याभावाद् उत्सृष्टानुबन्धस्य क्यमात्रस्य ग्रहण- 5 मित्याह वय इत्यादि । चर्मायतीति - चर्मणः प्रागतत्तत्त्वासंभवात् व्यर्थाभावे क्यङष् न प्राप्नोतीति तद्वद्वत्तेवर्मन् शब्दात् प्रत्ययः, अचर्मवान् चर्मवान् भवतीति, यथा-निद्रायतीत्यादि । श्रयितीति - अन्तर्वर्तिन्या विभक्त्या " तदन्तं पदम् " [ १.१.२० ] इति पदत्वं प्राप्तम्, तत् सित्येवेति नियमेनापोदितमपि 'व्यञ्जने' इत्यंशेन पुनः प्रसूतम्, ततः 'अय्' इति प्रतिषेधेन प्रतिषिद्धमनेन प्रतिप्रसूयते ।। २२ ।
10
नस्तं मत्वर्थे ॥ १. १. २३ ।।
सकारान्तं तकारान्तं च नाम मत्वर्थे प्रत्यये परे पदसंज्ञं न भवति । यशस्वी । मतोरपि मत्वर्थाव्यभिचाराद् मत्वर्थशब्देन ग्रहणम् । पेचुष्मान्, विदुष्मान्, यशस्वान्, तडित्वान्, मरुत्वान्, विद्युत्वान् । स्तमिति किम् ? तक्षवान्, राजवान् । मत्वर्थ इति किम् ? पयोभ्याम् । अय्व्यञ्जन 15 इति प्राप्ते प्रतिषेधोऽयम् ।। २३ ।।
न्या० स० - न स्त० - मतुर्मत्वर्थोऽर्थो यस्येति समानाधिकरणो बहुव्रीहिः, यथा-उष्ट्रो मुखमस्येत्युष्ट्रमुख इत्यत्र, नहि प्राणी प्राण्यन्तरस्य साक्षान्मुखं भवतीति सामर्थ्यात् सादृश्यप्रतीतिः, समग्रेण चोष्ट्रेण सह सादृश्याभावादुष्टशब्दोऽवयवे बर्तते, मुखेनैव च मुखसादृश्यं प्रसिद्धमिति सामर्थ्यान्मुखमिव मुखमस्येत्यर्थोऽवतिष्ठते; एवमिहापि मतुशब्दस्यार्थेन 20 सामानाधिकरण्यमनुपपद्यमानं मतुशब्दं मत्वर्थवृत्तिं गमयतीत्युक्तम् - मतोरपीति - मतुशब्दस्यापि मत्वर्थाव्यभिचाराद् मत्वर्थेन ग्रहणमिति । पेचुष्मानिति - "स्थानी वावर्णविधौ " [ ७. ४. १०६. ] इति न्यायेन प्रपदसंज्ञस्याऽऽदेशोऽप्यपदमित्युषादेशे कृते सन्तत्वाभावेऽन्यपदत्वात् "घुटस्तृतीय:" [ २.१.७६ ] इति षस्य डत्वं न भवति ।। २३ ।।
मनुर्नभोऽङ्गिरो वति ॥ १.१.२४ ॥
मनुस् नभस् अङ्गिरस् इत्येतानि नामानि वति प्रत्यये परे पदसंज्ञानि न वन्ति । मनुरिव मनुष्वत्, एवम् - नभस्वत्, अङ्गिरस्वत् । पदत्वाभावाद् र्न भवति, षत्वं तु भवति ।। २४ ।।
25