________________
[पा० १. सू० २५. ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ २१
वृच्यन्तोऽसषे ॥ १. १. २५ ॥
परार्थाभिधानं वृत्तिः, तद्वाँश्च पदसमुदायः समासादिः, तस्या अन्तोऽवसानं पदसंज्ञो न भवति; 'असषे' सस्य षत्वे तु पदसंज्ञैव । परमदिवौ, श्वलिहौ, गोदुहौ, परमवाचौ, बहुदण्डिनौ । एषु पदत्वाभावादुत्व-ढत्वघत्व - कत्व- लुगादीनि न भवन्ति । वृत्तिग्रहणं किम् ? चैत्रस्य कर्म । अन्त- 5 ग्रहणं किम् ? राजवाक्, अत्र नलोपो भवति । वाक्- त्वक् स्र ुच इति त्रयाणां वृत्तौ न द्वयोः पृथग्व त्तिरिति मध्यमस्य निषेधो न भवति । अथ 'वाक्त्वचम्' इत्यत्र समासान्ते सति वृत्त्यन्तत्वाभावात् पदत्वं प्राप्नोति, तथा च कत्वं स्यात् उच्यते-समासात् समासान्तो विधीयत इति त्वचो वृत्त्यन्तत्वम् । असष इति किम् ? सिञ्चतीति विच् सेक्, दध्नः सेक् दधिसेक्, दधिसेचौ । ईषदून: 10 सेक्, बहुसेक्, बहुसेचौ । अत्र पदसंज्ञायां पदादित्वात् सकारस्य "नाम्यन्तस्था०” [२. ३. १५.] इत्यादिना षत्वाभावः सिद्धः । अन्तर्वर्तिन्या विभक्त े : स्थानिवद्भावेन पदत्वं प्राप्तमनेन निषिध्यते । न च सित्येवेति नियमेन तन्निवर्तयितुं शक्यम्, “प्रत्ययः प्रकृत्यादेः " [ ७. ४. ११५. ] इति हि यस्मात् समुदायात् प्रत्ययविधानं तस्यैव पदत्वं नियमेन निवर्त्यते, न तु तदवयवस्येति 15 ।। २५ ।।
न्या० स०- - वृत्त्यन्त - वर्तनं वृत्तिः क्तिः, वर्तनव्यापारवतीत्यर्थः, वर्तनं तु अवयवार्थापेक्षया परस्य समुदायार्थस्य प्रतिपादनम् ; यद्वा 'वर्तिषीष्ट - परार्थमभिधेयाद्' इत्याशास्यमाना वृत्तिः कर्तरि तिक्; यद्वा वर्तन्ते स्वार्थपरित्यागेन पदान्यत्रेति आधारे तो वृत्तिः पदसमुदायादिरूपा । साधा - समासवृत्तिः १ तद्धितान्तवृत्तिः २ नामधातु - 20 वृत्तिश्चेति; 'राजपुरुषः, श्रौपगवः, पुत्रकाम्यति' इत्यादि । परार्थाभिधानमिति-अवयवार्थापेक्षया परोऽर्थः समुदायार्थः, यद्वा अवयवपदापेक्षया परोऽर्थः समुदायार्थः, यद्वा अवयवपदापेक्षया समुदायः परमदिव्लक्षणः परस्तस्यार्थः तस्याभिधानम् । अनेकार्थत्वात् परार्थाभिधानेऽपि वृत्तिशब्दः । श्रवसानमिति - श्रवसीयतेऽस्मिन् इत्यवसानम् । लीढ इति लिहौ, क्विप्, शुनो लिहौ श्वलिहौ “षष्ठ्ययत्नाच्छेषे" [ ३. १. ७६ ] इति समास:, इति 25 कर्तव्यम्, न तु श्वानं लीढ इति, यतस्तस्मिन् कृते *गतिकारक इति क्विबन्तेन लिह इत्यनेन समासे सति लिह इत्यस्याविभक्त्यन्तत्वेन पदत्वप्राप्तिरेव नास्तीति । लुगादीनीति - प्रदिशब्दाद ढत्वे सत्यस्यैव डत्वम्, धत्वे सति " गडदबादे: ० " [ २.१.७७. ] इति दस्य धत्वम्, कत्वे सति गत्वम्, लुगभावे "ह्रस्वान्ङणनो द्व” [ १. ३. २७. ] इति द्वित्वं च न भवति । राजवागिति - श्रत्रान्तग्रहणात् पूर्वस्य पदत्वे सति नलोपः, तथाऽवयवाश्रित- 30
A