________________
[पा० १. सू० २१-२२.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ १६
गृहमिति विभक्त्या पदत्वे ततः परस्य युष्मदः स्थाने पुत्राणामिति विभक्त्या सह वसादेशः स्यादित्य तव्याप्तिः 'ददाति नः शास्त्रम्' इत्यादौ च ददातीत्यादेविभक्तिसंज्ञकत्वेन पदा भावान्नो न स्यादित्यतिव्याप्तिः, इति ते [अतिव्याप्त्यव्याप्ती] मा भूतामित्यन्तग्रहणम् ।। २०॥
नाम सिदयव्यञ्जने ॥ १. १. २१ ॥
सिति प्रत्यये यकारवजिते व्यञ्जनादौ च परे पूर्ण नाम पदसंज्ञं भवति । भवदीयः, ऊर्णायुः, अहंयुः, अहँय्युः, शुभंयुः, शुभैय्युः । व्यञ्जने-- पयोभ्याम्, पयस्सु, राजता, दृक्त्वम्, राजकाम्यति । नामेति किम् ? धातोर्मा भूत्-वच्मि, यज्वा । सिदय्व्यञ्जन इति किम् ?, भवन्तौ, राजानौ। यवर्जनं किम् ? वाचमिच्छति वाच्यति । अन्तर्नतिन्यैव10 विभक्त्या तदन्तस्य पदत्वे सिद्धे सिद्ग्रहणं नियमार्थम्, तेन प्रत्ययान्तरे न भवति-सौश्रुतम्, भागवतम् ।। २१ ।।
न्या० स०-नामे०–नमति धातवे इति नाम, नमति प्रह्वीभावं गच्छति अर्थ प्रति इति वा “सात्मन्नात्मन् ०" [ उणा० ६१६. ] इति साधुः। वेति विशिष्टार्थप्रतीति जनयतीति विः “नी-वी-प्र-हृभ्यो डित्" [ उणा० ६१६. ] इति डित् इः । ननु 'नाम15 सिदयव्यञ्जने' इत्येव क्रियतां कि यवर्जनेन ? न च 'वाच्यति' इत्यादावपि पदसज्ञाप्राप्तिरिति वाच्यम्, यतो व्यञ्जनद्वाराऽनेनैव 'राजीयति' इत्यादौ पदत्वेऽपि सिद्ध “नं क्ये" [ १. १. २२. ] इति सूत्रं नियमसूत्रतया व्याख्यास्यते-नकारान्तमेव क्यप्रत्यये पदसंज्ञं भवति नान्यद् इति, नान्तं क्यप्रत्यय एव पदम्, न प्रत्ययान्तरे, इति विपरीतनियमोऽपि कथं न भवति ? तथा च 'राजा, सीमा' इत्यादावपि पदत्वं न स्यादिति चेत्, तन्न-“युवा20 खलति०" [ ३. १. ११३. ] इत्यादिनिर्देशात् । सत्यम्-यवर्जनाभावे 'सत्सु साधु-सत्यम्' इत्यादिषु “नाम सिद०" [१.१.२१. ] इति पदसंज्ञा स्यादित्येतदर्थं यवर्जनमिति । राजतेति, सौश्रुतमित्यादौ नियमस्य चरितार्थत्वात्, पयोभ्यामित्यादौ च 'अय्व्यञ्जने' इत्यस्य, राजता, दृक्त्वपित्यत्रोभयप्राप्ती स्पर्धे परम [ "स्पर्द्ध" ७. ४. ११६. ] इति न्यायाद् व्यखनाश्रितं पदत्वं भवति ।। २१ ।।
25
नं क्ये ॥ १. १. २२ ॥
क्य इति उत्सृष्टानुबन्धानां क्यन्-क्यब्यङ्षां ग्रहणम्, नकारान्तं नाम क्ये प्रत्यये परे पदसंज्ञं भवति । राजानमिच्छति क्यन्-राजीयति । राजेवाऽऽचरति क्यङ्-राजायते। अचर्म चर्म भवति क्यश् चर्मायति,