________________
१८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० १६-२०.]
संज्ञाप्रतिपत्त्यर्थम् । प्रथमादिप्रदेशाः-"नाम्नः प्रथमैकद्विबहौ” [२. २. ३१.] । इत्यादयः ।। १८ ॥
न्या० स०–स्यौजस्०-त्रयी त्रयोति भवनक्रियायां वीप्सा । विशेषरणार्था इति-विशेषो विशेषणं व्यवच्छेद इति यावा, तत्प्रयोजना इत्यर्थः । प्रथमा आदिर्यस्य संज्ञासमूहस्य । बहुवचनमिति-*तदादेशास्तद्वद् भवन्ति* इति न्यायात् साध्यसिद्धि-5 भविष्यति किं बहवचनेन ? सत्यम्-न्यायं विनाऽपीत्थं साधितम् । इयं हि महती शक्तिर्यत् परिभाषां न्यायांश्च विना साध्यत इति ।। १८ ।।
स्त्यादिविभक्तिः ॥ १. १. १६ ॥
'स्' इत्युत्सृष्टानुबन्धस्य सेर्ग्रहणम्, 'ति' इति उत्सृष्टानुबन्धस्य तिवः; आदिशब्दो व्यवस्थावाची। स्यादयस्तिवादयश्च प्रत्ययाः सुप्-स्यामहिपर्यन्ता10 विभक्तिसंज्ञा भवन्ति । विभक्तिप्रदेशाः-“अधातुविभक्तिवाक्यमर्थवन्नाम" [१. १. २७.] इत्यादयः ।। १६ ।।
न्या० स०-स्त्यादि०-विभज्यन्ते विभागशः प्रकाश्यन्ते कर्तृ-कर्मादयोऽर्था अनयेति, विभजनं वा 'श्वादिभ्यः" [५. ३. ६२.] इति क्तिः । अनुबध्यते कार्यार्थमुपदिश्यते इत्यनुबन्ध इत, उत्सष्टस्त्यक्तोऽनबन्धो येन यस्य वा स तथा तस्य । व्यवस्थावाचीति-तेन15 ये यदनुबन्धा यावन्तो विभक्तिसंज्ञायां पूर्वाचार्यैर्व्यवस्थापितास्त एव तदनुबन्धा एव तावन्त एवाऽत्र गृह्यन्त इति ।। १६ ।।
तदन्तं पदम् ॥ १. १. २० ॥
स्याद्यन्तं त्याद्यन्तं च शब्दरूपं पदसंज्ञं भवति । धर्मो वः स्वम् । ददाति नः शास्त्रम् । अन्तग्रहणं पूर्वसूत्रे तदन्तप्रतिषेधार्थम् । पदप्रदेशाः-"पदस्य"20 [२. १. ८६.] इत्यादयः ।। २० ।।
न्या० स०-तदन्त-पद्यते-गम्यते कारकसंसृष्टोऽर्थोऽनेनेति पदम् "वर्षादय:०" [५. ३. २६.] इत्यल् । नन्वन्तग्रहणं किमर्थम् ? न चासत्यन्तग्रहगे 'सा पदम्' इति कृते स्त्यादेरेव पदसंज्ञा स्यात, ततश्च 'अग्निष' इत्यादौ पदमध्ये विधीयमानं षत्वं पदादौ न स्यादिति वाच्यम् । “प्रत्ययः प्रकृत्यादेः [७. ४. ११५.] इति परिभाषया25 तदन्तविधेर्लब्धत्वादिति, सत्यम्-पदसंज्ञायामन्तग्रहणमन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तप्रतिषेधार्थम्, अन्यथा “प्रत्ययः प्रकृत्यादेः" [७. ४. ११५.] इति परिभाषया स्त्याद्यन्तस्य विभक्तिसंज्ञा स्यात. तस्यां च सत्यां 'काष्ठगृहं युष्मत्पुत्राणाम्' इत्यादौ काष्ठशब्दस्य