________________
[पा० १. सू० १८.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ १७
ननु विवृततरताऽतिविवृततरताऽतिविवृततमतारूपाणां प्रयत्नान्तराणां सद्भावात् सप्तधा प्रयत्न इति वक्त मुचितम्, कथं चतुर्धेत्युक्तम् ? सत्यम्-विवृततरतादीनपि विवृततया परिगृह्योक्तं चतुर्धा इति, विशेषस्य सामान्येऽन्तर्भावात् । प्रकारः संवृत इत्यन्ये इतिसंवृतताऽऽख्यं पञ्चमं प्रयत्नमन्ये मन्यन्त इत्यर्थः। अकारं संवृतं शिक्षायामके पठन्ति, तेनाकाराकारयोः संवृत-विवृतयोभिन्नप्रयत्नत्वात् स्वसंज्ञा न प्राप्नोतीति विवृत एवात्र 5 प्रतिज्ञायते, प्रयोगे तु संवृत एवाऽसौ स्वरूपेणेत्यन्य इत्युक्तम् । सानुनासिकेति-नासिकामनुगतो यो वर्णधर्मः स तथा, सह तेन वर्तते यो वर्णः स तथा। निर्गतोऽनुनासिकाद् यः स तथा। स्वरः संजातो येषां ते स्वरिताः। यथाकथञ्चिद् व्युत्पत्तिः । अनुनासिक इति-अनुनासिको धर्मोऽस्यास्तीति अभ्रादित्वाद् अः, तद्धर्मरहितोऽननुनासिक इति । रेफोमरणां विति-अन्यवर्णापेक्षया तेषां स्वत्वाभावः, रेफस्य तु रेफः स्वो भवंत्येव ।10 एवमूष्मणामपि स्वा न भवन्तीति ।
ननु वर्णानां तुल्याऽऽस्यप्रयत्नत्वे कथं श्रुतिभेद: ? उच्यते-कालपरिमाण-करणप्राणकृतगुणभेदात् श्रुतिभेदः । तथाहि-यावता कालेनाक्ष्ण उन्मेषो निमेषो वा भवति तावान् कालो मात्रा, मात्राकालो वर्णो मात्रिकः, द्विस्तावान् द्विमात्रः, त्रिस्तावान् त्रिमात्रः, अर्धमात्राकालं व्यञ्जनम् ; तदिदं वर्णेषु चतुर्विधं कालपरिमाणं भेदकृद् भवति । करणं च15 श्रुतिभेदकरं भवति, तत् प्रागेवोक्तम् । प्राणकृताश्च गुणभेदा घोषाघोषादय इति । निवृत्त्यर्थमिति-तेनारुशश्च्योततीत्यत्र शकार-चकारयोस्तुल्यस्थान-बाह्यप्रयत्नत्वे सत्यपि "धुटो धुटि." [१.३. ४८.] इति शकारस्य चकारे लोपो न भवति । ते ह्यासन्न इत्यत्रैवेति"अासन्नः" [७. ४. १२०.] इत्यत्रापि महाप्राणस्यवावकाशः, अन्येषां च वेदे प्रयोजनम् । उपयुज्यन्त इति-उपयुक्ता भवन्तीत्यर्थः। शिक्षामिति-वर्णोत्पत्तिप्रतिपादक शास्त्रम् ।20 कोष्ठे उ.रे । अन्यतमस्मिन्निति-मतान्तरेणाऽयं साधुः, स्वमतेऽन्यतरग्रहणादन्यस्वार्थिकप्रत्ययान्तानां सर्वादित्वनिषेधान्न सिध्यति । अनुप्रदानमिति-अनुप्रदीयते वर्णान्तरसंजननार्थमेकत्र मील्यते "भुजि-पत्यादिभ्य:०" [५. ३. १२८.] [इत्यनट] निग्रह इति-स्तब्धत्वं कठिनत्वमिति यावत् । अणुत्वम्-सूक्ष्मत्वम् । स्रसनम्-श्लथत्वमित्यर्थः । वर्णनिष्पत्ति
वेति-अत्राल्पस्वरत्वेन भावशब्दस्य पूर्वनिपातः। श्वासलक्षणमनप्रदानं येषां ते25 तथा। इतरे इति-इतरत्वं पूर्ववाक्याऽपेक्षम्, न सर्वेषामित्यर्थः। उदात्तादीनां स्वरेष्वेव संभवान्न व्यञ्जनेषु इति व्यञ्जनोत्पत्तौ न कथ्यन्ते उदात्तादयो बाह्यप्रयत्नाः ।। १७ ।।
स्योजसमौशस्टाभ्याभिस्ङेभ्यामभ्यस्ङसिभ्याम्भ्यसङसोसाम्ङ्योस्सुपां त्रयी त्रयी प्रथमादिः॥ १. १. १८ ॥
त्यादीनां प्रत्ययानां त्रयी त्रयी यथासंख्यं प्रथमा-द्वितीया-तृतीया-चतुर्थी-30 + पञ्चमी-षष्ठी-सप्तमीसंज्ञा भवति । इ-ज-श-ट-ङ-पा अनुबन्धाः “सौ नवेतौ"
[१. २. ३८.] इत्यादौ विशेषणार्थाः । बहुवचनं स्याद्यादेशानामपि प्रथमादि