________________
१६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० १७.]
___ अल्पे वायावल्पप्राणता, महति महाप्राणता जायते; महाप्राणत्वा- । दूष्मत्वम् । यदा सर्वाङ्गानुसारी प्रयत्नस्तीवो भवति तदा गात्रस्य निग्रहः कण्ठबिलस्य चाण त्वं स्वरस्य च वायोस्तीव्रगतित्वाद् रौक्ष्यं भवति तमुदात्तमाचक्षते । यदा तु मन्दः प्रयत्नो भवति तदा गात्रस्य स्रसनं कण्ठबिलस्य च महत्त्वं स्वरस्य च वायोर्मन्दगतित्वात् स्निग्धता भवति तमनुदात्तमाचक्षते । 5 उदात्ताऽनुदात्तस्वरसंनिपातात् स्वरित इत्येष कृत्स्नो बाह्यः प्रयत्न इति । अथवा विवारादयो वर्णनिष्पत्तिकालादूज़ वायुवशेनोत्पद्यन्ते, स्पृष्टतादयस्तु स्थानाऽऽस्यप्रयत्नव्यापारेण वर्णोत्पत्तिकाल एवेति वर्णनिष्पत्तिकालभावाऽभावाभ्यां विवारादीनां बाह्यत्वम्, स्पृष्टतादीनां चाभ्यन्तरत्वम् । तत्र वर्गाणां प्रथम-द्वितीयाः श-ष-स-विसर्ग-जिह्वामूलीयोपध्मानीयाश्च विव त-10 कण्ठाः श्वासानुप्रदाना अघोषाः । वर्गाणां तृतीय-चतुर्थ-पञ्चमा अन्तस्था हकाराऽनुस्वारौ च संव तकण्ठा नादानप्रदाना घोषवन्तः । वर्गाणां प्रथमतृतीय-पञ्चमा अन्तस्थाश्चाल्पप्राणाः । इतरे सर्वे महाप्राणाः । स्थानग्रहणं किम् ? क-च-ट-त पानां तुल्याऽऽस्यप्रयत्नानामपि भिन्नस्थानानां मा भूत्, किञ्च स्यात् ? 'तप्र्ता, तप्तुम्' इत्यत्र' “धुटो धुटि स्वे वा” [१. ३. ४८.] 15 इति पकारस्य तकारे लोपः स्यात् । अास्यप्रयत्नग्रहणं किम् ? चवर्ग-यशानां तुल्यस्थानानामपि भिन्नाऽऽस्यप्रयत्नानां मा भूत्, किञ्च स्यात् ? 'अरुश् 'श्च्योतति' इत्यत्र “धुटो धुटि स्वे वा" [१. ३. ४८.] इति शकारस्य चकारे लोपः स्यात् । स्वप्रदेशाः-"इवर्णादेरस्वे स्वरे यवरलम्" [१. २. २१.] इत्यादयः ।। १७ ।।
20 न्या० स०-तुल्य०-तोल्यतेऽनया भिदाद्यङि तुला, तुलया संमितस्तुल्यः "हृद्य-पद्य०" [ ७. १. ११. ] इत्यादिना यः । प्रयत्न उत्साहः । नासिकौष्ठौ चेति-व्यस्तावेतौ, समासे तु "प्राणितूर्य०' [ ३. १. १३७. ] इति समाहारः स्यात् । कलयति ईषदास्यभावम्, अच्, अल्पाद्यर्थे कपि, णके वा, कु ईषत् कलकः काकलक: "अल्पे" [३. २. १३६.] इति कादेशः; काकलक इति संज्ञा यस्य स तथा. ग्रीवायामुन्नतप्रदेशः ।25 आन्तर इति-अन्तरा भवः "भवे" [६. ३. १२३.] अण, अन्तर्जातो वा, भवे त्वर्थे दिगादित्वाद् यः स्यात् । स्पृश्यन्ते स्म स्पृष्टा वर्णाः, तेषां भावः स्पृष्टता-वर्णानां प्रवृत्तिनिमित्तम् ; स्पृष्टताहेतुत्वात् प्रयत्नोऽपि स्पृष्टता, "अभ्रादिभ्यः" [७. २. ४६. ] इत्यप्रत्यये वा, संज्ञाशब्दत्वात् स्त्रीत्वम् । प्रयत्नानां संज्ञा इमा यथाकथञ्चिद् व्युत्पाद्यन्ते, एवं सर्वत्र । एवमीषत्स्पृष्टताऽपि। विवियन्ते स्म विवृता वर्णास्तेषां भावः, ईषद् विवियन्ते30 स्मेत्यादि । करणमिति-वर्णोत्पत्तिकाले स्थानानां प्रयत्नानां च सहकारि कारणम् । सर्वेति-सर्वं मुखं स्थानमस्य, मुखस्थितानि सर्वाण्यपि स्थानानि अवर्णस्येत्यर्थः । कण्ठतालव्याविति-कण्ठतालुनि भवौ, देहांशसमुदायादपि यः। स्वरेषु ए-श्रो विवृततराविति