________________
[पा० १. सू० १७.]
श्री सिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ १५
वाः । ईषत्स्पृष्टं करणमन्तस्थानाम् । ईषद्विव तं करणमूष्मणाम् । विव तं करणं स्वराणाम्, 'ऊष्मणां च' इत्यन्ये, ऊष्माणः श-ष-स-हाः । स्वरेषु ए-अो विव ततरौ, ताभ्यामपि ऐ-ौ, ताभ्यामप्यवर्णः, 'अकारः संवतः' इत्यन्ये । तत्र त्रयोऽकारा उदात्ताऽनुदात्त-स्वरिताः, प्रत्येकं सानुनासिक-निरनुनासिकभेदात् षट्, एवं दीर्घ-प्लुताविति अष्टादश भेदा अवर्णस्य ; ते सर्ने कण्ठस्थाना 5 विव तकरणाः परस्परं स्वाः । एवमिवर्णास्तावन्तस्तालव्या विव तकरणाः स्वाः ।
उवर्णा अोष्ठया विव तकरणाः स्वाः । ऋवर्णा मूर्धन्या विव तकरणाः स्वाः । लुवर्णा दन्त्या विव तकरणाः स्वाः, 'लुवर्णस्य दीर्घा न सन्तीति द्वादश' इत्यन्ये । संध्यक्षराणां ह्रस्वा न सन्तीति तानि प्रत्येकं द्वादशभेदानि; तत्र-10 एकारास्तालव्या विव ततराः स्वाः, ऐकारास्तालव्या अतिविव ततराः स्वाः,
ओकारा अोष्ठया विव ततराः स्वाः, औकारा प्रोष्ठ्या अतिविव ततराः स्वाः । वर्याः पञ्च पञ्च परस्परं स्वाः । य-ल-वानामनुनासिकोऽननुनासिकश्च द्वौ भेदौ परस्परं स्वौ। रेफोष्मणां तु अतुल्यस्थानाऽऽस्यप्रयत्नत्वात् स्वा न भवन्ति । प्रास्यग्रहणं बाह्यप्रयत्ननिवृ त्त्यर्थम्, ते हि "अासन्नः' [७. ४. १२०.] 15 इत्यत्रैवोपयुज्यन्ते, न स्वसंज्ञायाम् ; के पुनस्ते ? विवारसंवारौ श्वास-नादौ घोषवदघोषता अल्पप्राण-महाप्राणता उदात्तोऽनुदात्तः स्वरितश्चेत्येकादश । कथं पुनरेते अास्याद् बाह्याः स्पृष्टतादयस्तु प्रान्तराः ? उच्यते-वायुना कोष्ठेऽभिहन्यमानेऽमीषां प्रादुर्भावात्, स्पृष्टतादीनां तु कण्ठादिस्थानाभिघाते भावात् । तथा चाऽऽपिशलि: शिक्षामधीते-"नाभिप्रदेशात् प्रयत्नप्रेरितः प्राणो नाम20 वायुरू माक्रामन्नुरः प्रभृतीनां स्थानानामन्यतमस्मिन् स्थाने प्रयत्नेन विधार्यते, स विधार्यमाणः स्थानमभिहन्ति, तस्मात् स्थानाभिघाताद् ध्वनिरुत्पद्यते आकाशे, सा वर्णश्रुतिः, स वर्णस्याऽऽत्मलाभः। तत्र वर्णध्वना त्पद्यमाने यदा स्थान-करण-प्रयत्नाः परस्परं स्पृशन्ति सा स्पृष्टता, यदेषत् स्पृशन्ति सेषत्स्पृष्टता, यदा सामीप्येन स्पृशन्ति सा संव तता, दूरेण यदा स्पृशन्ति सा25 विव तता; एषोऽन्तः- प्रयत्नः । स इदानीं प्राणो नाम वायुरूवं माक्रामन् मूनि प्रतिहतो निवृ त्तः कोष्ठमभिहन्ति, तत्र कोष्ठेऽभिहन्यमाने कण्ठबिलस्य विव तत्वाद् विवारः संव तत्वात् संवारः । तत्र यदा कण्ठबिलं विव तं भवति तदा श्वासो जायते, संव ते तु नादः, तावनुप्रदानमाचक्षते; अन्ये तु ब्रुवतेअनुप्रदानमनुस्वानो घण्टादिनिर्बादवद्' इति । तत्र यदा स्थान-करणाभिघातजे 30 ध्वनौ नादोऽनुप्रदीयते तदा नादध्वनिसंसर्गाद् घोषो जायते, यदा तु श्वासोऽनुप्रदीयते तदा श्वासध्वनिसंसर्गादघोषो जायते ।