________________
१४ ]
बृहद्वृत्ति-लवुन्याससंवलिते
[पा० १. सू० १७.]
देशकाल-लिपिभेदेऽपि रूपाभेदाइ दृष्टान्तमाह-वज्राकृतिरिति-वज्रस्येव प्राकृतिर्यस्य स । तथा, गजकुम्भयोरिवाकृतिर्यस्य सोऽपि तथा । ककार-पकारौ चानयोः परदेशस्थावुच्चार्येते, सर्वत्र परसंबद्धावेवैतौ भवतः, न स्वतन्त्रौ, नापि पूर्व संबद्धावनुस्वारवदिति । रेफादेशत्वात् कख-पफसंनिधावेव तयोः प्रयोगादल्पविषयत्वम्, अत एव सत्यपि संज्ञिसामानाधिकरण्येऽल्पीयस्त्वज्ञापनाय शिडित्येकवचनेन निर्देशः कृतः। अथ कथमनयोर्वर्णत्वं वर्णसमाम्नाये 5 पाठाभावात् ? सत्यम्-रेफस्य वर्णत्वात् तयोश्च रेफादेशत्वाद् वर्णत्वसिद्धिः । न च वर्णाऽऽदेशत्वेन लोपस्यापि वर्णत्वमाशङ्कनीयम्, तस्याभावरूपत्वात्, न चाभावो भावस्याऽऽश्रयो भवितुमर्हति अतिप्रसंगात्, अयमेवार्थो बहुवचनेन सूच्यते, अनुवादकत्वेन तस्य साधकत्वाभावादित्याह-बहुवचनमिति । ननुक)(पयोर्व्यञ्जनसंज्ञाऽपि पूर्वेषामस्ति तत् कथं तैः सह न विरोधः ? उच्यते-रेफस्थानित्वेन व्यञ्जनसंज्ञाऽपीति न विरोधः ।। १६ ।। 10
तुल्यस्थानास्यप्रयत्नः स्वः॥ १. १. १७ ॥ यत्र पुद्गलस्कन्धस्य वर्णभावापत्तिस्तत् स्थानम्, कण्ठादि । यदाहुः--
"अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा। जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च”॥ ४ ॥
[पाणिनीयशिक्षा, श्लो० १३.] 15 अस्यत्यनेन वर्णानित्यास्यम्, अोष्ठात् प्रभृति प्राक् काकलकसंज्ञकात् कण्ठमणेः । आस्ये प्रयत्न प्रास्यप्रयत्नः, प्रान्तरः संरम्भः । स चतुर्धास्पृष्टता १, ईषत्स्पृष्टता २, विवृ तता ३, ईषद्विव तता ४ । तुल्यौ वर्णान्तरेण सदशौ स्थानाऽऽस्यप्रयत्नौ यस्य स वर्णस्तं प्रति स्वसंज्ञो भवति । करणं तू जिह्वामूलमध्याग्रोपाग्ररूपं स्थानाऽऽस्यप्रयत्नतुल्यत्वे सति नाऽतुल्यं भवतीति20 पृथग् नोक्तम् । तत्र स्थानम्-अवर्ण-हविसर्ग-कवर्गाः कण्ठ्याः । 'सनमुखस्थानमवर्णम्, ह-विसर्गाव रस्यौ, कवर्गो जिह्वामूलीयः' इत्यन्ये । इवर्ण-चवर्गयशास्तालव्याः । उवर्ण-पवर्गोपध्मानीया ओष्ठयाः । ऋवर्णटवर्ग-र-षा मूर्धन्याः, 'रेफो दन्तमूलः' इत्येके । लुवर्णतवर्ग-ल-सा दन्त्याः । ए-ऐ तालव्यौ, 'कण्ठय-तालव्यौ' इत्यन्ये । अो-औ ओष्ठ्यौ , 'कण्ठयोष्ठयौ' इत्यन्ये । वो25 दन्त्यौष्ठयः, 'सृक्कस्थानः' इत्यन्ये । जिह्वामूलीयो जियः, 'कण्ठयः' इत्यन्ये । नासिक्योऽनुस्वारः, 'कण्ठय-नासिक्यः' इत्यन्ये । ङ-अ-ण-न-माः स्वस्थान-नासिकास्थानाः । अथाऽऽस्यप्रयत्नः-स्पृष्टं करणं स्पर्शानाम्, स्पर्शा
१. 'इत्येके' प्रा।