________________
४६० ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० १०२.]
शुकहरिणी, कुमुदश्येनी, तडित्पिशङ्गी, तित्तिरिकल्माषी, कुम्भकपाललोहिनी, । मृगीव मृगी सा चासौ चपला च मृगचपला, एवं हंसगद्गदा, काकवन्ध्या,अत्र शस्त्र्यादयः शब्दाः श्यामादयश्च श्यामादिकं गुणमुपादय यदोपमेये वर्तन्ते तदैकार्था भवन्ति । एवं च पुंवद्भावोऽपि सिद्धो भवति । उपमानमिति किम् ? देवदत्ता श्यामा । सामान्यैरिति किम् ? अग्निर्माणवकः । गौर्वा-5 हीकः, फालास्तन्दुलाः, पर्वता बलाहकाः । 'विशेषणं विशेष्येण' [३. १. ६६.] इत्येव समासे उपमानोपमेययोः साधारणधर्मप्रतीत्यन्यथानुपपत्त्यै । पूर्वनिपाते च सिद्धे उपमानं सामान्यैरेवेति नियमार्थं वचनम्-तेनाग्निर्माणवक इत्यादौ विशेषणसमासोऽपि न भवति ।। १०१ ।।
न्या० स०-उपमानं । समानस्य भावः वर्णदृढादित्वात् ट्यण , फालास्तन्दुला10 इति फाला इव दीर्घत्वाद् विशदत्वात् खरत्वाद् वा उपमेयमेतन्न पुनः साधारणधर्मवाचि । न्यग्रोधश्चासौ परिमण्डला च अनया रीत्या वाक्यं कार्यम् । कुमुदं च तत् श्येनी च कुमुदश्येनी। नियमार्थमिति शस्त्रीश्यामेत्यादौ गुणमुपादाय प्रवर्त्तमानेन शस्त्र्यादिना श्यामादेविशेषणाच्छ्यामशस्त्रीत्युक्त पि साधारणधर्मप्रतीत्यभावादुपमानस्य समासे पूर्वनिपाते च सिद्धे विधिरारभ्यमाणो विध्यसंभवान्नियमार्थो भवति ।। ३. १. १०१ ॥ 15
उपमेयं व्याघ्राद्यै। साम्यानुक्तौ ॥ ३. १. १०२ ॥
उपमेयवाचि नामैकार्थं सामर्थ्यादुपमानवाचिभिर्व्याघ्राद्यैर्नामभिः सह समस्यते, साम्यानुक्तौ न चेदुपमानोपमेययोः साधारणधर्मवाची शब्दः प्रयुज्यते, स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । व्याघ्र इव व्याघ्रः पुरुषः स चासौ व्याघ्रश्च पुरुषव्याघ्रः, एवं पुरुषसिंहः, पुरुषवृषभः, वृषभसिंहः,20 राज्ञी चासौ व्याघ्री च राजव्याघ्री, शुनी चासौ सिंही च श्वसिंही,-अत्रापि कर्मधारयात् पुंवद्भावः । साम्यानुक्ताविति किम् ? पुरुषव्याघ्रः शूर इति मा भूत् । इदमेव च प्रतिषेधवचनं ज्ञापकम्-प्रधानस्य सापेक्षत्वेऽपि समासो भवति-तेन राजपुरुषो दर्शनीय इत्यादि सिद्धम् । व्याघ्र, सिंह, ऋषभ, वृषभ, महिष, चन्दन, वृक, वराह, हस्तिन्, कुञ्जर, रुरु, पृषत, पुण्डरीक, पलाविका25 क्रुञ्चा। बहुवचनमाकृतिगणार्थम्, तेन-वाग्वज्रः, मुखपद्म, पाणिपल्लवं, करकिसलयं, वदनेन्दुः, पार्थिवचन्द्रः, वानरश्वा, कुचकुम्भस्तनकलशांदयोऽपि