________________
[पा० १. सू० १००-१०१.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ४८६
निन्द्यं कुत्सनैरपापाद्यैः ॥ ३. १. १०० ॥
निन्द्यवाचि नामैकार्थं पापादिवजितैः कुत्सनैनिन्दाहेतुभिः सह समस्यते, स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । वैयाकरणश्चासौ खसूची च वैयाकरणखसूची, यः शब्दं पृष्टः सन्निष्प्रतिभत्वात् खं सूचयति स एवमुच्यते, वैयाकरणखसूचिरित्यन्ये,याज्ञिककितवः, अयाज्ययाजनात्तृष्णापरः,मीमांसकदुर्दु- 5 रूढः, दुर्दुरूटो नास्तिकः, क्षत्रियभीरुः, भिक्षुविटः, मुनिखेट:, ब्राह्मणचेलः, ब्राह्मणब्रुवः, राक्षसहतकः, ब्राह्मणजाल्मः, तापसापशदः, काण्डीरकाण्डपृष्टः, ग्राम्यधृष्टः, मुनिधूर्तः, कविचौरः, आरक्षितस्करः, पाषण्डिचाण्डालः । निन्द्यमिति किम् ? वैयाकरणश्चौरः-प्रत्यासत्तेनिन्द्यशब्दप्रवृत्तिनिमित्तकुत्सायामयं समास इष्यते, न चात्र चौर्येण वैयाकरणत्वं कुत्स्यते, किं तर्हि ? तदाश्रयो10 द्रव्यम्,-वैयाकरणत्वं तदुपलक्षणमात्रम्, तेनात्र विशेषणसमासो भवति-चौरवैयाकरणः खलवैयाकरणः । कुत्सनैरिति किम् ? कुत्सितो ब्राह्मणः । बहुलाधिकाराद्विशेषणसमासोऽप्यत्र न भवति, भवतीत्यन्ये-कुत्सितब्राह्मणः । अपापाद्यैरिति किम् ? पापवैयाकरणः, अणकवैयाकरणः,-प्रवृत्तिनिमित्तमेव कुत्स्यते, एवं पापकुलालः, अणकनापितः, हतविधिः, दग्धदैवम्, दुष्टामात्याः,15 क्षुद्रतापस इत्यादि । विशेष्यस्य पूर्वनिपातार्थं वचनम् । बहुवचनं प्रयोगानुसरणार्थम् ।। १०० ।।
न्या० स०-निन्द्य। काण्डीरकाण्डपृष्ट इति शस्त्राजीवः काण्डस्पृष्टः । आरक्षी इत्यत्र 'ग्रहादिभ्यो णिन्' [ ५. १. ५३. ] कुत्सितो ब्राह्मण इति । न हि ब्राह्मणः कुत्सनवचनः, अपि तु कुत्स्य एवेति व्यावृत्तिबलान्न समासः, ब्राह्मणश्चासौ कुत्सितश्चेत्यपि20 कृते कुत्सितशब्दस्य पापाद्यङ्गीकारादनेनाऽपि न समासः, पापवैयाकरणाणकवैयाकरणयोः पूर्वनिपाते कामचारः शेषेषु जातिशब्देषु पूर्वनिपात एव विशेषणस्य ।। ३. १. १०० ।।
उपमानं सामान्यैः ॥ ३. १. १०१॥
उपमीयतेनेनेत्युपमानम्, उपमानोपमेययोः साधारणो धर्मः सामान्यम्, उपमानवाचि नामैकार्थं सामान्यवाचिभिर्नामभिः सह समस्यते स, च समास-25 स्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । शस्त्रीव शस्त्री, शस्त्री चासौ श्यामा च शस्त्रीश्यामा-शस्त्रीव श्यामेत्यर्थः, एवं न्यग्रोधपरिमण्डला, शरकाण्डगौरी,