________________
[ पा० १. सू० १०३ - १०४.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ४९१
भवन्ति । उपमानं सामान्यैरेवेत्यवधारणेन विशेषणसमासे प्रतिषिद्धे समासविधानार्थं वचनम् ।। १०२ ।।
न्या० स० - - उपमेयं० । शब्दः प्रयुज्यत इति । यदा प्रकरणादिवशान्नियतसाधारणगुणप्रतिपत्तौ व्याघ्रादिशब्दः शौर्यादौ पुरुषार्थे एव वर्त्तते तदा साम्यानुक्तौ सामानाधिकरण्ये सति समासो भवति । यदा तु गुणान्तरव्यवच्छेदाय विशिष्टसाधारण - 5 गुणप्रतिपत्तये शूरादिशब्दप्रयोगस्तदा साम्यानुक्तिग्रहणात् समासाभावः । पुरुषव्याघ्रः शूर इति । नन्वत्र व्याघ्रः शूर इति व्याघ्रपदस्य शूरपदाऽपेक्षयाऽपि समासो न भविष्यति किं प्रतिषेधेन ? इत्याह- इदमेव चेति । पलाविकेति पलतेरचि तस्याविका पलाविका पक्षिणी ।। ३ १ १०२ ।।
पूर्वापर प्रथमचरमजघन्यसमानमध्यमध्यमवीरम्
10
।। ३. १. १०३ ॥
पूर्वादीनि नामान्येकार्थानि परेण नाम्ना सह समस्यन्ते स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । पूर्वश्चासौ पुरुषश्च पूर्वपुरुषः, एवमपरपुरुषः, प्रथमपुरुषः, चरमपुरुषः, जघन्यपुरुषः, समानपुरुषः, मध्यपुरुषः, मध्यमपुरुषः, वीरपुरुषः । 'विशेषणं विशेष्येण' - [ ३. १. ε६. ] इत्यादिनैव 15 सिद्धे स्पर्धे परमिति पूर्वनिपातस्य विषयप्रदर्शनार्थमद्रव्यवाचिनोरनियमेन पूर्वापरभावप्रसक्तौ पूर्वनिपातनियमार्थं वचनम् - तेन पूर्वजरन्, वीरपूर्वः, पूर्वपटुः । कथमेकवीर इत्यादौ वीरादेः परस्य स्पर्धे पूर्वनिपातो न भवति ? बहुलाधिकारात् ।। १०३ ।।
न्या० स० -- पूर्वापर० । पूर्व्वपुरुष इत्यादि । दिग्वाचकत्वेऽपि सूत्रोपादान - 20 सामर्थ्यात् समासः, न तु दिगधिकमित्यनेन निषेधः । पूर्व्वपटुरिति पूर्व्वशब्दो दिग्योगेन कालयोगेन वा द्रव्यं विशिनष्टि, पटुशब्दश्च पटुत्वेन । तत्र विशेषरणसमासे द्वयोरपि गुणवचनविशेषणत्वात् खञ्जकुण्टादिवदनियमेन पूर्वनिपातः स्यात् । बहुलाधिकारादिति अत्र सुधाकरस्त्वाह यद्यप्येकवीर इति शिष्टप्रयुक्तस्तथापि शिष्टप्रयोगात् साक्षात् स्मृतिरेव बलीयसीत्यसाधुरेवायमिति । ३. १. १०३ ।।
श्रेण्यादि कृताद्यैश्च्व्यर्थे ॥ ३. १. १०४ ॥
श्रेण्यादि नामैकार्थं कृताद्यैर्नामभिः सह समस्यते, च्व्यर्थे गम्यमाने, स
25