________________
४८४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
पा० १. सू० ६६.]
अप्रधानस्यैव प्रधानेन समासः । प्राधान्यं च द्रव्यशब्दानां द्रव्यस्यैव साक्षात्क्रियाभिसंबन्धात्, यद्यपि चोत्पलादिशब्दा जातिशब्दास्तथापि उत्पत्तेः प्रभृत्याविनाशाद्रव्येण जातेरभिसंबन्धाद्रव्यशब्दा उच्यन्ते, गुणक्रिययोस्तु तथा द्रव्येण संबन्धाभावान्न तन्निमित्ताः शब्दा द्रव्यशब्दा इति नीलोत्पलमित्याद्येव भवति, न तूत्पलनीलादीति । यस्तु गुणादिशब्दानामेव समासस्तत्रोभयोरपि 5 पदयोरप्रधानत्वात्कामचारेण पूर्वापरनिपातः-खजश्वासौ कुण्टश्व खञ्जकुण्टः, एवं कुण्टखञ्जः, शुक्लकृष्णः, कृष्णशुक्लः, एवं रोहितपाण्डुः २, हरितबभ्र : २, पूर्वा चासावुत्तरा च पूर्वोत्तरा, एवमुत्तरपूर्वा, दक्षिणपूर्वा, पूर्वदक्षिणा-विदिक्, पाचकपाठक, पाठकपाचकः-पुरुषः, कृष्णसारङ्गः, कृष्णशबलः, कृष्णकल्माषः इत्यादौ तु गुणशब्दत्वेऽपि सारङ्गादिशब्दानां समुदायवाचित्वात्प्राधान्यम्10 कृष्णादिशब्दानां त्ववयववाचित्वेनाप्राधान्यम् इति कृष्णादीनामेव पूर्वनिपातः । एकार्थमिति किम् ? वृद्धस्योक्षा वृद्धोक्षा। कर्मधारये तु समासान्तः स्यात्बहुलाधिकारात्क्वचित्समासो न भवति-रामो जामदग्न्यः, अर्जुनः कार्तवीर्यः, दीर्घश्चारायणः, क्वचिन्नित्यः-कृष्णसर्पः, लोहितशालिः, गौरखरः, लोहिताहिः, नरसिंहः, पुरुषमृगः, करिमकरः, बकटिट्टिभः, नकुलसर्पः, पक्षिमार्जारः,15 कुक्कुटसर्पः,-जातिविशेषवाचित्वान्नित्यसमासा एते। न हि वाक्येन जातिर्गम्यते, जातिशब्दानां चावयवद्वारेण समुदायेऽपि वृत्तेः सामानाधिकरण्यम्, भूयोऽवयवाभिधायिनश्च प्राधान्याद्विशेष्यत्वमितरस्य तु विशेषणत्वम् । चकारस्तत्पुरुषकर्मधारयसंज्ञा समावेशार्थः । कर्मधारयप्रदेशाः 'कडारादयः कर्मधारये' [३. १. १५८.] इत्यादयः ।। ६६ ।।
20 न्या० स०--विशेषणं । वृत्तिरेकार्थ्यमिति एक: साधारणोऽर्थो द्रव्यलक्षणस्तदतदात्मको यस्य तदेकार्थं तस्य भावः । तक्षकः सर्प इति । सर्प इति विशेष्यं तक्षक इति विशेषणम्, व्यतिक्रमेण तु तक्षको विशेष्यमेव, न ह्यस्य सर्पो विशेषणं घटतेऽसंभवात् । लोहितस्तक्षक इति लोहित इति विशेष्यं तक्षको विशेषणं व्यत्ययेन तु तक्षको विशेष्यमेव लोहित इति विशेषणं न भवति तस्य रक्तत्वाव्यभिचारात् । शिशपा वा भवतीति न च25 वाक्येऽपि, तर्हि वृक्षादिप्रयोगो न स्यादिति वाच्यं, द्वौ द्विरदावितिवद्गतार्थस्याऽपि लोके प्रयोगदर्शनात्, यद्वा पूर्व वृक्षप्रयोगात् सामान्यावगतेविशेषावगमाय शिंशपेति प्रयुज्यते । एवं च तक्षकाहिरिति यतस्तक्षकशेषशब्दावहिगुणादावपि वर्त्तते । तक्षक: सर्प इत्यादौ तु तद्गुणविवक्षायामपि बाहुलकान्न भवति, विशेषणविशेष्यद्वयोपादानं हि बाहुलक