________________
[पा० १. सू० ६७.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ४८५
प्रपञ्चार्थम् । प्राधान्यं च द्रव्यशब्दानामिति नीलादि अन्याश्रितत्वादप्रधानमुत्पलं तु तस्याश्रयत्वात् प्रधानं । उत्पलं हि द्रव्यरूपत्वात् क्रियासिद्धये साक्षादुपयुज्यमानं प्राधान्येन विवक्ष्यते, नीलस्तु गुणत्वात् द्रव्यव्यवधानेन क्रियायामुपयोगादुत्पलस्य विशेषणं संपद्यते इति । ननु प्राधान्यं च द्रव्यशब्दानामित्युक्तमुत्पलादयस्तु जातिशब्दास्तत्कथमित्याहयद्यपीति । यस्तु गुणादीति आदिशब्दात् द्रव्यक्रिययोर्ग्रहः, क्रिया पाचक इत्यादिका 5 दर्शितैव, द्रव्यं यथा दण्डी चासौ धन्वी चात्राऽपि पूर्वनिपाते कामचारः । पदयोरप्रधानत्वादिति द्रव्यव्यवधानेन क्रियायामुपयोगात् ।
पूर्वोत्तरेति रविपरिवर्तनसंयोगेन दिश उच्यन्ते अतोऽत्रापि गुणः प्रवृत्तिनिमित्तम् । पूर्वदक्षिणा विदिगिति विदिगित्युपलक्षणं तत्संबन्धिन्यन्यत्राऽपि देशादौ भवति । सारङ्गो वर्णसमूहः, अर्जुनः कार्तवीर्य इति कृतं वीर्यं येन तस्यापत्यमिति 'ऋषिवृष्णि'10 [६. १. ६१.] इत्यण । कृष्णसर्प इत्यादिषु चतुर्यु उदाहरणेषु गुणवचनत्वात् कस्य पूर्वनिपातः ? इत्याह-भूयोवयवाभिधायिन इत्यादि । जातिशब्दानामिति यद्येवं कथं कृष्णसर्पशब्दयोः समानाधिकरण्यं द्वयोरेव तयोर्जातिविशेषवाचकत्वादित्याशङ्का चकारस्तत्पुरुषेति अत्र अनुवर्तते या तत्पुरुषसंज्ञा तया अस्याः कर्मधारयसंज्ञायाः समावेशो यथा स्यादित्येवमर्थश्चकारः। समावेशार्थ इति । यदि च चकारस्तत्पुरुष इत्यस्यानुकर्षणार्थ15 इत्युच्येत तदा चानुकृष्टं नोत्तरत्र इति विज्ञायेत ॥ ३. १. ६६ ॥
पूर्वकालैकसर्वजरत्पुराणनवकेवलम् ॥ ३. १. ६७ ॥
पूर्वकाल इत्यर्थनिर्देशः पूर्वः कालो यस्यार्थस्य स पूर्वकालः, तद्वाचि नामैकादीनि चैकार्थानि परेण नाम्ना सह समस्यन्ते, तत्पुरुषः कर्मधारयश्च समासो भवति, पूर्वकालः संबन्धिशब्दत्वादपरकालेन । पूर्वं स्नातः20 पश्चादनुलिप्तः-स्नातानुलिप्तः, एवं लिप्तवासितः, कृष्टमतीकृता भूमिः, छिन्नप्ररूढो वृक्षः, एकशब्दः संख्यान्यसहायाद्वितीयेषु वर्तते,-एका शाटीएकशाटी, शाटशब्देन त्वनभिधानान्न भवति-एकः शाट:, एकर्षयः, एकचौरः, एकधनुर्धरः, सर्वशब्दो द्रव्यावयवप्रकारगुणानां कात्स्न्यें वर्तते-सर्वशैलाः, सर्वरात्रः, सर्वान्नम्, । सर्वशुक्लः, जरत्-जरद्गवः, जरद्राजः, जरद्वलिनः,25 पुराण-पुराणवैयाकरणः, नव-नवोदकम्, नवोक्तिः, केवल-केवलमसहायं
ज्ञानं केवलज्ञानम्, केवलजरत्, केवलपुराणम् । एकार्थमित्येव ? • स्नात्वानुलिप्तः,-स्नात्वेत्यसत्त्ववाचिनो नानुलिप्तपदेनैकार्थ्यम् । पूर्वेणैव सिद्धे
पुनर्वचनं स्पर्द्ध परमिति पूर्वनिपातस्य विषयप्रदर्शनार्थम् पूर्वापरकालवाचि