________________
[पा० १. सू० १६. ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ४८३
देशे मासादिशब्द इत्याधार एव सप्तमी । अन्यथा उपचारं विना समग्रेऽपि मासे देयमिति यदि विवक्ष्यते तथा 'कालाध्वनोर्व्याप्तौ ' [ २. २.४२. ] इति द्वितीया स्यात् । मासदेयमिति मासस्य पूरके त्रिंशत्तमे दिने देयमित्यर्थः । प्रयमपि नित्यसमासो यतो न समासे अवश्यंशब्दस्य प्रयोग इति न्यासः । 'तत्पुरुषे कृति ' [ ३. २.२० ] इत्यलुप्प्राप्ती बाहुलकात् सप्तम्याः लोपः, निरनुबन्धन्यायात् क्यपध्यणोर्ग्रहरणाभावे मासे स्तुत्येत्यादौ न 5 समासः । मासे दातव्या भिक्षेति प्रर्थवद्ग्रहणे इति न्यायात् कृत्तव्यप्रत्ययैकदेशस्य यकारस्य न ग्रहणम् ।। ३. १. ६५ ।
विशेषणं विशेष्येणैकार्थं कर्मधारयश्च ॥ ३. १.६६ ॥
विशिष्यते ऽनेकप्रकारं वस्तु प्रकारान्तरेभ्यो व्यवच्छिद्यतेऽनेनेति विशेषणं, व्यवच्छेद्यं विशेष्यम्, भिन्नप्रवृत्तिनिमित्तयोः शब्दयोरेकस्मिन्नर्थे वृत्तिरैकार्थ्यं 10 सामानाधिकरण्यमिति यावत्, तद्वदेकार्थम् । विशेषणवाचि नामैकार्थं विशेष्यवाचिना नाम्ना सह समस्यते, स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । नीलं च तदुत्पलं च नीलोत्पलम्, कृष्णाश्च ते तिलाश्च कृष्णतिलाः, पुमांश्चासौ गौश्च पुंगवः, मोषिका चासौ गौश्च मोषिकगवी, । विशेषण - विशेष्ययोः संबन्धिशब्दत्वादेकत रोपादानेनैव द्वये लब्धे द्वयोरुपादानं परस्पर-15 मुभयोर्व्यवच्छेद्यव्यवच्छेदकत्वे समासो यथा स्यादित्येवमर्थम्, तेनेह न भवति, - तक्षकः सर्पः, लोहितस्तक्षक इति, - न ह्यसर्पोऽन्यवरर्णो वा तक्षकोऽस्ति । कथं तहि आम्रवृक्षः ? शिशपावृक्षोऽस्तपर्वत इत्यादी समासो न ह्यवृक्ष प्रात्रः शिशपा वा भवति ? - नात्राम्रादयः शब्दा वृक्षविशेषाणामेव वाचकाः किं तर्हि फलादेरपि तत्सहचरित माधुर्यस्थैर्यादेर्गुणविशेषस्य च एवं च तक्षकाहि: 20 शेषाहिरित्यादयोऽपि भवन्ति । यदि वा आम्रारणां फलानां संबन्धी वृक्षः आम्रवृक्षः, एवं शिशपावृक्ष:, अस्तस्य पर्वतोऽस्तपर्वतः, एवमुदयपर्वतः इत्यादयः षष्ठीसमासा द्रष्टव्याः ।
"
विशेषणत्वे उभयोश्च विशेष्यत्वे सति विशेष्यस्यापि विशेषणत्वमित्युत्पलशब्दस्यापि नीलादिना समासप्रसङ्गः तथा च 'प्रथमोक्त 25 प्राक्' [३. १. १४८.] इति वचनादुत्पलनीलमित्यपि स्यात् नैवम्, अविशेषेऽपि विशेषणविशेष्यभावस्य ' प्रधानानुयाय्यप्रधानम्' इति न्यायात्