________________
[ पा० १ सू० ६४-६५.]
अंशग्रहणं किम् ? ग्रहनि भुक्तम् । एतत्तु ते दिवा वृत्तं रात्रौ वृत्तं तु द्रक्ष्यसि । कथं रात्रिवृत्तम् संध्यागजितमिति - बहुलाधिकारात् । क्तेनेत्येव ? तत्र भोक्ता, पूर्वाह्णे भोक्ता ।। ६३ ।।
४८२ ]
बृहद्वृत्ति - लघुन्याससंवलिते
न्या० स० -- तत्राहोरा० । पृथग्योगादिति तत्राहोरात्रांश च क्तनेति चकारादन्यत् नाम । तत्रेति सप्तम्यन्तमिति सप्तमी साधर्म्यात् त्रप् प्रत्ययोऽप्यत्र सहमी साधर्म्यं S पुनस्त्रपोऽधिकरणार्थता यथैव ह्यधिकरणार्थप्रत्यायनाय सप्तमी प्रयुज्यते तथा त्रपीति ।। ३. १. ६३ ।।
नाम्नि ॥ ३.१.६४ ॥
सप्तम्यन्तं नाम नाम्ना समस्यते, नाम्नि संज्ञाविषये, समदायश्चेत्संज्ञा. भवति स च समासस्तत्पुरुषसंज्ञो भवति । अरण्येतिलकाः, प्ररण्येमाषकाः, 10 वनेकशेरुकाः, वनेवल्वजाः, कूपेपिशाचिकाः, वनेहरिद्र काः, पूर्वाह, स्फोटकाः, अपराह ्मणेस्फोटकाः, तथा स्तूपेशाणः, मुकुटेकार्षापणः, हलेद्विपदिका, - सप्तम्या अलुप, नित्यसमासोऽयम्, नहि वाक्येन संज्ञा गम्यते ॥ ६४ ॥
न्या० स०-- नाम्नि । अरण्येतिलका इति तिलप्रकारा माषप्रकाराः 'कोण्वादेः' [ ७. २. ७६. ] इति कः । कशेरुकवल्वज वृक्षविशेषौ तृणे च । पिशाचिका भट्टारिका 115 सप्तम्या अलुबिति अरण्येतिलका इत्यादिषु 'प्रद्व्यञ्जनात्' [ ३. २. १८. ] इत्यनेन स्तूपेशा इत्यादिषु तु 'प्राक्कारस्य ' [ ३. २. १६. ] इत्यनेन ।। ३. १. ९४ ।।
कृद्येनावश्यके ॥ ३. १. ६५ ।।
सप्तम्यन्तं नाम 'य एच्चातः [ ५.१.२८ ] इति कृद्यप्रत्ययान्तेन नाम्ना समस्यते, आवश्यकेऽवश्यंभावे गम्यमाने, तत्पुरुषश्च समासो भवति |20 मासेऽवश्यं देयम्- मासदेयम्, एवं संवत्सरदेयम्, पूर्वाह, रोगेयम्, प्रातरध्येयम्, ग्रामदेयम्, नगरदेयम् । कृदिति किम् ? मासे पित्र्यम् । य इति किम् ? मासे स्तुत्यः, मासे पाच्यम्, मासे दातव्या भिक्षा । संवत्सर कर्तव्यमिति तु बहुलाधिकारात् । आवश्यक इति किम् ? मासे देया भिक्षा ।। ६५ ।।
न्या० स ० -- कृद्य ना० ।
मासेऽवश्यमिति 'यद्भावो भावलक्षणम्' [२. २.25 १०६.] इति सप्तमी मासे गते देयमिति हि मासादिभावो लक्ष्यते इति । अथवा मासाद्येक
**