________________
[पा० १. सू० ६२-६३.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ४८१
विचिन्वता तेन गवेषयतेत्यर्थः। अवधारणेनेति पात्रेसमिता इत्यत्र पात्रशब्देन पात्रसहचारिभोजनं लक्ष्यते ततो भोजन एव समिता मिलिता: सन्ति न कार्यान्तरे इत्यवधारणात् क्षेपो गम्यते। उदपानमण्डूक इति । उदकं पीयतेऽस्मिन् 'नाम्न्युत्तर' [ ३. २. १०७. ] इति उदादेशः। भोजन एवेति पिण्डीशब्द: ख्यापयितव्योपलक्षणमित्युक्त भोजन एवेति । गर्भधीर इति । गर्भ एव स्थैर्यादियुक्तो गर्भान्निःसृत्य तु चापलादिदोषयुक्तः 5 इत्यर्थः ।
चापलेनान्विति-कणे किमपि जल्पित्वा जीवति नास्य विक्रमाद्गुण इति क्षेपो गम्यते । प्राकृतिगरणार्थमिति पत्र प्राकृतिः सादृश्यं तत्प्रधानो गण आकृतिगणः, अथवा आकृतिशब्देन जातिरुच्यते सा यथा सकला व्यक्तीाप्नोति तद्वत् यः प्रचुरशब्दविषयं व्याप्नोति स जातिसादृश्यादाकृतिगणः। सप्तम्या अलुबिति ननु पात्रेसमितेत्यादि-10 कृत्प्रत्ययान्तेषु 'तत्पुरुषे कृति' [ ३. २. २०. ] इति शेषेषु 'अद्व्यञ्जनात्' [३. २. १८.] इत्यलुप् प्राप्तस्तत् किं निपाताश्रयेण? सत्यं, ताभ्यां बहुलं संज्ञायां चालुबुक्त त्याहनिपातनादिति ।। ३. १. ६१ ।।
क्ते न ॥ ३. १. ६२ ॥
सप्तम्यन्तं नाम क्तान्तेन नाम्ना सह समस्यते, क्षेपे गम्यमाने, तत्पुरुषश्च15 समासो भवति । भस्मनिहुतम्, प्रवाहेमूत्रितम्, उदकेविशीर्णम्,-निष्फलं कृतमेवमुच्यते, अवतप्तेनकुलस्थितम्, कार्येष्वनवस्थितत्वमुच्यते,-सर्वत्रोपमानेन क्षेपो गम्यते । नित्यसमासाश्चैते पात्रेसमितादयश्च ।। ६२ ।
न्या० स०--क्तन०। नित्यसमासाश्चैते इति वाक्यस्य क्रियाकारकसंबन्धमात्रप्रत्यायकतया क्षेपप्रतिपादने सामर्थ्याभावात् समासस्यैव तत्र सामर्थ्यात् ।। ३. १. ६२ ।। 20
तबाहोरात्रांशम् ॥ ३. १. ६३ ॥
पृथग्योगात्क्षेप इति निवृत्तम् । तत्रेत्येतत्सप्तम्यन्तं नामाहरवयवा रात्र्यवयवाश्च सप्तम्यन्ताः क्तान्तेन नाम्ना सह समस्यन्ते, तत्पुरुषश्च समासो भवति । तत्रकृतम्, तत्रभुक्तम्, पूर्वाह णे कृतं पूर्वाह णकृतम्एवमपराह णकृतम् । पूर्वरात्रकृतम्, अपररात्रकृतम्, तद्धिताद्युत्पत्तिः25 समासफलम्-तात्रकृतिः। तत्राहोरात्रांशमिति किम् ? घटे कृतम् । कथमन्यजन्मकृतं कर्मेति ? 'कारकं कृता' [३. १. ६६.] इति तृतीयासमासोऽयम् । अहोरात्रग्रहणं किम् ? शुक्लपक्षे कृतम्,-पक्षो मासांशः ।