________________
४८० 1
बृहद्वृत्ति-लघुन्याससंवलिते
[ पा० १. सू० १.]
समिताः, पात्रेसमिताः, एवं पात्रेबहुलाः, गेहेशूरः, गेहेदाही, गेहेक्ष्वेडो, गेहेनर्दी, गेन । गेहमेव विजितमनेन गेहेविजिती, - 'इष्टादे:' [ ७. १. १६८. ] इतीनि 'व्याप्येक्ते`न.' [२. २. ६६.] इति सप्तमी, एवं गेहेविचितो, गेहेव्यालः, गेहेपटुः, गेहेपण्डितः, गेहेप्रगल्भः, गोष्ठेशूरः, गोष्ठेक्ष्वेडी, गोष्ठेनर्दी, गोष्ठेविजिती, गोष्ठेव्यालः, गोष्ठेपटुः, गोष्ठेपण्डितः, गोष्ठेप्रगल्भः, - एषु प्रवधारणेन क्षेपो 5 गम्यते । उदुम्बरे मशक इव उदुम्बरमशकः, एवमुदुम्बरकृमिः,
कूपकच्छप:, कूपमण्डूकः, अवटकच्छपः, अवटमण्डूकः, उदपानमण्डूकः, अल्पदृश्व' वमुच्यते, नगरकाकः, नगरवायसः, नगरश्वा एतैः सदृशो धृष्ट उच्यते, उदुम्बरमशकादिषूपमया क्षेपो गम्यते । गेहेमेही, पिण्डीशूरः, -य आवश्यकार्थमपि बहिर्न निर्गच्छति, भोजन एव च संरभते स एवमुच्यते, 10 अत्रावधारणेन निरुत्साहता तया च क्षेपो गम्यते । पितरिशूरः, मातरि - पुरुष:, - यः सदाचारं भिनत्ति स एवमुच्यते, - - त्र प्रतिषिद्धासेवनेन क्षेपो गम्यते ।
गर्भेधीरः, गर्भेशूरः, गर्भेसुहितः, गर्भेतृप्तः, गर्भेदृप्तः, -योऽलीकाभिमानित्वादनुचितचेष्टः स एवमुच्यते, तत एव च क्षेपो गम्यते । कर्णेटिरिटिरि:, 15 कर्णेचुरुचुरः, कर्णेटिरिटिरा, कर्णेचुरुचुरा, - चापलेनानुचितचेष्टोच्यते,टिरिटिरीति गत्यनुकरणम्, चुरुचुर्विति वाक्यानुकरणम् । तत् करोति रिजन्तादप्रत्ययो निपातनसामर्थ्याच्चानो न भवति । इतिशब्दः समासान्तरनिवृत्त्यर्थः–तेन परमाः पात्रेसमिताः, पात्रेसमितानां पुत्रः इत्यादिषु समासो न भवति । निपातनात् सप्तम्या अलुप् बहुवचनम् प्राकृतिगणार्थम्, 20 तेन-व्ररणकृमिः, गृहसर्पः, गृहकलविङ्कः, आखनिकबक: इत्यादयो गृह्यन्ते ।। ६१ ।।
न्या० स० —— पात्रेस ० । गेहेक्ष्वेडीति त्रिक्ष्विदाङ् इति धातो क्ष्विद: स्थाने विडं केचित् पठन्ति, गेहे एव क्ष्वेडते 'ग्रहादिभ्यो णिन् ' [ ५. १. ५३. ] एवमग्रेतनद्वये । गेहमेव विजितमनेनेति 'व्याप्ये क्तेन:' [२. २. ६६ ] इत्यनेन क्तप्रत्ययान्तात् यस्तद्धित 25 इन् तदन्तस्य व्याप्ये वर्त्तमानात् सप्तमी विहितेति प्रथमान्तेन विग्रहः, यद्वा अर्थकथनमिदं गेहेविजीतीत्येव क्रियते । गेहेविचितीति - गेहमेव विचितं गवेषितमनेन यथादृष्टं