________________
[पा० १. सू० ८७.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ४७७
न्या० स०--ज्ञानेच्छा०। ज्ञानेच्छा र्थाश्च आधारश्च तेषां क्त इति शकटन्यासः, सर्वत्र कर्तरि षष्ठी, सत्याधारे च क्तविधानात् 'क्तयोरसदाधारे' [२. २. ९१.] इति षष्ठ्या न निषेधः । इष्टेनेति 'तेन प्रोक्त' [ ६. ३. १८१.] इत्यतस्तृतीयाधिकारे यदुपज्ञात इत्यर्थे यथाविहितं प्रत्ययं विधत्ते तत् ज्ञापयति, न वर्तमाने काले विहितोऽयं क्तप्रत्ययः किंतु भूते काले, तथा राजपूजित इत्यादावपि । तृतीयासमासा इति अत्र भूते 5 तविधानात् 'क्तयोरसदाधारे' [२. २. ६१. ] इति षष्ठीनिषेधात् तृतीयासमासा इत्यर्थः । कृद्योग जाया इति कर्तृ कर्मविहिताया इत्यर्थः ।। ३. १. ८६ ।।
अस्वस्थगुणैः ॥ ३. १. ८७ ॥
ये गुणाः स्वात्मन्येवावतिष्ठन्ते न द्रव्ये ते स्वस्थाः, तत्प्रतिषेधेनास्वस्थगुणवाचिभिर्नामभिः सह षष्ठयन्तं नाम न समस्यते । पटस्य शुक्लः,10 काकस्य कृष्णः, गुडस्य मधुरः, चन्दनस्य सुरभिः, घृतस्य तीव्रः, कुकुमस्य मृदु:-अत्र अर्थात्प्रकरणाद्वापेक्ष्यस्य वर्णादेर्निर्ज्ञाने य इमे शुक्लादयस्ते पटादेरिति सामोपपत्तेः समासः प्राप्नोतीति प्रतिषिध्यते। तथा-पटस्य शौक्ल्यम्, काकस्य कार्ण्यम्, गुडस्य माधुर्यम्-एषु पूर्वेषु च शुक्लादेर्गुणस्य शुक्लः पट इत्यादौ द्रव्येऽपि वृत्तिप्रदर्शनात् अस्वास्थ्यमस्त्येव । गुणशब्देन चेह15 लोकप्रसिद्धा रूपरसगन्धस्पर्शगुणा अभिप्रेतास्ततः तद्विशेषैरेवायं प्रतिषेधःतेन यत्नस्य गौरवं-यत्नगौरवम्, वचनगौरवम्, प्रक्रियालाघवम्, बुद्धिकौशलम्, मतिवैगुण्यम्, करणपाटवम्, पुरुषसामर्थ्यम्, अङ्गसौष्ठवम्, हस्तचापलम्, वचनमार्दवम्, उत्तरपदार्थप्राधान्यम्, क्रियासातत्यम्, वर्तमानसामीप्यम्, सत्सामीप्यम्, अधिकरणैतावत्यम्, प्रयोगान्यत्वम्, गतताच्छील्यम्, पटहशब्दः,20 नदीघोषः, वचनप्रामाण्यम्, शब्दाधिक्यम्, वाङ्माधुर्यम्, गोविंशतिः, गोत्रिंशत्, गोशतम्, गोसहस्रम्, समाहारैकत्वमित्यादिषु प्रतिषेधो न भवति । अस्वस्थगुणैरिति किम् ? घटवर्णः, कन्यारूपम्, कपित्थरसः, चन्दनगन्धः, स्तनस्पर्शः, बहुलाधिकारात्कण्टकस्य तैक्ष्ण्यम्, वृषलस्य धाष्टर्य मित्यादिषु समासो न भवति, कुसुमसौरभ्यम्, चन्दनसौरभमित्यादिषु25 भवतीति ।। ८७ ॥
न्या० स०-अस्वस्थगु०। स्वात्मन्येवावतिष्ठन्त इति ननु द्रव्याश्रयी गुण इति गुणलक्षणं ततः कथमिदमिति ? सत्यं, अभिधाव्यापारापेक्षया स्वस्थत्वं गुणानां यतः