________________
४७६ ]
बृहत्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० ८६.]
शतृ-चैत्रस्य पचन्, अध्वगानां धावन्तः शीघ्रतमाः, चैत्रस्य पक्ष्यन् । पानश्चैत्रस्य पचमानः, चैत्रस्य पक्ष्यमाणः, सर्वत्र संबन्धे षष्ठी । एतैरिति किम् ? ब्राह्मणस्य कर्तव्यं ब्राह्मणकर्तव्यम् । इध्मवश्चनः, पलाशशातनः राज्ञः पाटलिपुत्रकस्य धनम्, शुकस्य माराविदस्य शब्दः, सर्पिषः पीयमानस्य गन्धः, सूत्रस्याधीयमानस्यार्थ इत्यादौ सामानाधिकरण्ये धनादिपदापेक्षा षष्ठीत्यसा-5 मर्थ्यात्समासो न भवति, विशेषणसमासस्तु निरपेक्षत्वेन सामर्थ्याद्भवत्येव, पाटलिपुत्रकश्चासौ राजा च तस्य पाटलिपुत्रकराजस्येत्यादि। षष्ठीसमासे तु अनियमेन पूर्वनिपातः स्यात् ।। ८५ ।।
न्या० स०-तृप्तार्थः । तृप्तोऽर्थोऽभिधेयो येषां, पूरणेत्यत्र अभेदोपचारात् पूरणप्रत्यया गृह्यन्ते । सति तृप्तसुहितयोः 'ज्ञानेच्छा' [ ५. २. ६२. ] इति क्तः पूर्णे कर्मणि 10 क्तः। आशिते शील्यादित्वात् क्तः घ्राणे 'गत्यर्था' [ ३. ४. ११. ] इति क्तः । ग्रामस्य पुरस्तादिति अव्युत्पन्नमव्ययं व्युत्पत्तौ तु 'रिरिष्ट' [ २. २. ८२. ] इति षष्ठ्या विधानात् समासो न प्राप्नोत्येव । अध्वगानामिति अत्राऽपि संबन्धे षष्ठी न निर्धारणे तस्य सतोऽप्यविवक्षा। माराविदस्येति मारमावेत्ति मारवित् तस्याऽपत्यं 'ङसोऽपत्ये' [६. १.२८.] अण् । सर्वत्र संबन्धे षष्ठीति कर्मजषष्ठ्यपि न समस्यते, चैत्रस्य कर्मत्व-15 भृतो द्विषन् । अनियमेन पूर्वनिपातः स्यादिति 'षष्ठ्ययत्न' [ ३. १. ७६.] इत्यत्र विशेषणविशेष्ययोर्द्व योरपि प्रथमोक्तत्वात् विशेषणसमासे तु प्रधानानुयायिनो व्यवहारा इति न प्रागनिपातः। पाटलिपुत्रकस्येति चतुर्यु उदाहरणेषु यथासंख्यं धनं गृहं गन्धः अर्थश्च ज्ञेयानि ।। ३. १. ८५ ॥
20
ज्ञानेच्छार्थािधारक्तेन ॥ ३. १. ८६ ॥
ज्ञानार्थादिन्छार्थादर्चार्थाच्च वर्तमानो यः क्तो यश्च 'अद्यर्थाच्चाधारे' [५. १. १२.] इत्याधारे विहितस्तदन्तेन नाम्ना षष्ठयन्तं नाम न समस्यते । राज्ञां ज्ञातः, राज्ञां बुद्धः, राज्ञामिष्टः, राज्ञां मतः, राज्ञाचितः, राज्ञां पूजितः, इदमेतेषां यातम्, इदमेषां यातम्, इदमेषामासितम्, इदमेषां भुक्तम्, इदमेषां पीतम् । कथं राजपूजितः राजमहितः, राजसंमतः, कलहंसराममहितः ? 25 कृतवान् इति बहुलाधिकारात् इष्टेन भूतकालक्त न तृतीयासमासा एत इति केचित् । अन्ये तु कृद्योगजाया एव षष्ठया इह समासप्रतिषेध इति संबन्ध षष्ठीसमासा एत इत्याहुः ।। ८६ ।।