________________
[पा० १. सू० ८४-८५.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ४७५
पतिपर्यायस्तेन संबन्धषष्ठया याजकादिपाठात् कर्मषष्ठया वाऽयं समासः, क्रियाशब्दस्य तु तत्राग्रहणादनेन प्रतिषेधः भुवो भर्ता, वज्रस्य भर्ता ।। ८३ ।।
न्या० स०--कर्मजा। तच्चाकस्येति तृचोऽव्यभिचारात् 'अकस्याऽपि' ग्रहः तृच् सन्निहितस्य । गुणीत्यत्र शिखादित्वादिन् । क्रियाशब्दस्य त्विति बिभर्तीति 5 भरणक्रियामात्रमुपादाय वर्तमानस्येत्यर्थः, पतिपर्यायभर्तृ शब्द औरणादिकोऽव्युत्पन्नोऽप्यस्ति ।। ३. १. ८३ ।।
तृतीयायाम् ।। ३. १.८४ ॥
कर्तरि या तृतीया तस्यां सत्यां कर्मजा षष्ठी न समस्यते। आश्चर्यो गवां दोहोऽगोपालकेन, साध्विदं शब्दानामनुशासनमाचार्येण । तृतीयायामिति10 किम् ? साध्विदं शब्दानुशासनमाचार्यस्य, साध्वी कटचिकीर्षा चैत्रस्य, कर्तरि षष्ठ्यामपि न समास इति कश्चित्-विचित्रा सूत्रस्य कृतिराचार्यस्य । कर्तरीत्येव ? साध्विदं शब्दानुशासनमाचार्यस्य नः पुण्येन । कर्मजेत्येव ? मैत्रस्य संबन्धी कृतो मैत्रकृतश्च त्रेण । कथं गोदोहो गोपालकेन ? संबन्धषष्ठ्या भविष्यति ।। ८४ ।।
15 न्या० स०--तृतीयायाम्। मैत्रस्य संबन्धी कृत इत्यत्र प्रोदनोऽन्यो वाऽर्थप्रकरणादिना नितिः ।। ३. १. ८४ ॥
तप्तार्थपूरणाव्ययातूशशबानशा ॥ ३. १.८५ ॥
तृप्ताथैः पूरणप्रत्ययान्तैरव्ययैरतृशन्तैः शत्रन्तैरानशन्तैश्च नामभिः षष्ठयन्तं नाम न समस्यते । तृप्तार्थाः-फलानां तृप्तः, फलानां सुहितः,20 सक्तूनां पूर्णः, प्रोदनस्याशितः, पयसो घ्राणः । पूरण-तीर्थकराणां षोडशः, चक्रधराणां पञ्चमः शान्तिः, चक्रधराणां द्वितीयः सगरः, वासुदेवानां तृतीयः स्वयंभूः। अव्यय-राज्ञः साक्षात्, ग्रामस्य पुरस्तात्, चैत्रस्य कृत्वा, मैत्रस्य प्रकृत्य, अव्ययीभावस्याप्यन्वर्थाश्रयणात्क्वचिदव्ययत्वम्-तेन चैत्रस्योपकुम्भमित्यत्र समासो न भवतीति केचित् । अतृश्-रामस्य द्विषन्, रावणस्य द्विषन् ।25