________________
४७४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० ८२-८३.]
क्रीडायामाजीवे च गम्यमाने तत्पुरुषश्च समासो भवति । उद्दालकपुष्पभञ्जिका, वारणपुष्पमचायिका, शालभञ्जिका,-कस्याश्चित् क्रीडायाः संज्ञा । आजीवे, दन्तलेखकः, नखलेखकः, अवस्करसूदकः, रमणीयकारकः, दन्तलेखनादिरस्याजीवो गम्यते । क्रीडाजीवौ वाक्येन न गम्यते इति नित्यसमासा एते । क्रीडाजीव इति किम् ? प्रोदनस्य भोजकः, पयसः पायकः, 'कर्मजा 5 तृचा च' [३. १. ८३.] इति प्रतिषेधे प्राप्ते वचनम् ।। ८१ ।।
न्या० स०--अकेन । 'कर्मजा तृचा च' [ ३. १. ८३. ] इत्यस्यापवादस्ततश्च भनक्तीति भञ्जिका उद्दालकपुष्पाणां भञ्जिकेति कृते 'कृति' [ ३. १. ७७. ] इति प्राप्नोति, तत उत्तरेण निषेधस्तदाऽस्य सूत्रस्य फलं, यदा तु उद्दालकपुष्पाणि भज्यन्ते यस्यां क्रीडायामिति विग्रहस्तदा निषेधाभावे 'कृति' [ ३. १. ७७. ] इत्यनेनैव सिद्ध-10 त्वादस्य न किञ्चित् फलम् । ननु भनक्तीति भञ्जिकेति कर्तरि कथं साधयन्ति यत उद्दालकपुष्पभजिकेति क्रीडानाम ततस्तस्याः क्रीडाया भङ्ग कर्तृत्वं न संगच्छते अपि तु क्रीडाकारिणाम्, उच्यते। अस्यां क्रीडायां भजनक्रियाकरणादुपचारात् सापि की भण्यते, शालशब्दोऽपि तालव्याद्यो वृक्षवाचकोऽस्ति ।। ३. १. ८१ ॥
न कर्तरि ॥ ३. १. ८२ ॥
कर्तरि विहिता या षष्ठी तदन्तं नामाकप्रत्ययान्तेन नाम्ना न समस्यते। भवतः शायिका, भवत आशिका, भवतोऽग्रगामिका कर्तरीति किम् ? इक्षुभक्षिकां मे धारयसि, पयःपायिकां मे धारयसि ।। ८२ ।।
न्या० स०-न कर्तरि०। अग्रगामिकेति कृत् सगतिकारकस्येति न्यायादग्रगामिकेति अस्यापि कृदन्तत्वम् ।। ३. १. ८२ ।।
कर्मजा तुचा च ॥ ३. १. ८३ ॥
कर्तरीत्यनुवर्तते तच्चाकस्य विशेषणम्, कर्मणि विहिता षष्ठी कर्मजा, तदन्तं नाम कर्तरि विहितो योऽकप्रत्ययस्तदन्तेन तृजन्तेन च नाम्ना सह न समस्यते । प्रोदनस्य भोजकः, सक्तूनां पायकः, अपां स्रष्टा, पुरां भेत्ता। कर्मजेति किम् ? संबन्धषष्ठयाः प्रतिषेधो माभूत्, गुणो गुणिविशेषक :-25 गुणिनः संवन्धी विशेषक इत्यर्थः कर्तरीत्येव ? इक्षुभक्षिकां मे धारयसि, पयःपायिकां मे धारयसि । कथं भूभर्ता ? वज्रभर्तेति,-भर्तृ शब्दो यः
15
20