________________
[ पा० १. सू० ७९-८१.] श्रीसिद्धहेमचन्द्र शब्दानुशासने तृतीयोऽध्यायः [ ४७३
उद्वर्तक वर्तक होतृ भर्तृ । आकृतिगणोऽयम् - तेन तुल्यार्था अपि - गुरुसदृशः, गुरुसमः, दास्याःसदृशः, वृषल्याः समः ' षष्ठ्याः क्षेपे' [ ३. २. ३०. ] इत्यलुप् । तथा-अन्यत्कारकम्, विश्वगोप्ता, तीर्थकर्ता, तत्प्रयोजको हेतुश्च, जनिकर्तुः प्रकृतिः, इत्यादि सिद्धं भवति । 'कर्मजा तृचा च' [ ३. १. ८३.] इति प्रतिषेधापवादो योगः, तुल्यार्थैः विध्यर्थश्च ।। ७८ ।।
।
न्या० स० -- याजका० । याजकेति याजक: ऋत्विक् पतिवाचकस्यैवात्र पाठः, कृतीत्यनेनैव सिद्धे किमर्थोऽयं योगः ?
चेतीति । विध्यर्थश्चेति तुल्यार्थैरिति या षष्ठी सा शैषिका न भवतीति
अप्राप्तौ ।। ३. १७८ ।।
भत्रिति भर्तृ शब्दस्य इत्याह कर्म्मजा तृचा
पत्तिरथौ गणकेन । ३. १.७६ ॥
पत्तिरथशब्दौ षष्ठ्यन्तौ गरणकेन नाम्ना समस्येते, तत्पुरुषश्च समासो भवति । पत्तीनां गरणकः - पत्तिगरणकः, एवं रथगरणकः । पत्तिरथाविति किम् ? कार्षापणानां गरणकः । गरणकेनेति किम् ? रथस्य दर्शकः, कथं ज्योति - र्गणकः ? 'प्रकेन क्रीडाजीवे' [ ३. १८१.] इति भविष्यति । 'कर्मजा तृचा च' [३. १. ८३.] इत्यस्यापवादोऽयम् ।। ७९ ।।
सर्वपश्चादादयः ॥ ३. १. ८० ॥
सर्वपश्चादित्यादयः षष्ठीतत्पुरुषाः साधवो भवन्ति । सर्वेषां पश्चात् सर्वपश्चात्पदं वर्तते, सर्वचिरं जीवति, तदुपरिष्टात् रुक्मं निदधाति इत्यादि, - अव्ययेन प्रतिषेधं वक्ष्यति तस्यापवादोऽयम् । बहुवचनं शिष्टप्रयोगानुसरणार्थम् ।। ८० ।।
5
10
न्या० स० -- सर्व्वप० । सर्वेषां पश्चादिति यदा संबन्धे षष्ठी तदा निषेधे प्राप्ते समासः, यदा तु रिरिष्टेति तदा अप्राप्ते समासः । प्रतिषेषं वक्ष्यतीति यदा संबन्धे षष्ठी तदा इत्यर्थः, तत्र संबन्धषष्ठीग्रहणात् उपलक्षरणमिदं तेन यदा रिरिष्टेति षष्ठी तदाप्राप्ते समासः ।। ३ १ ८० ।
अकेन क्रीडाजीवे ॥ ३१.८१ ॥
आजीवो जीविका, षष्ठ्यन्तं नामाकप्रत्ययान्तेन नाम्ना समस्यते,
15
20
25