________________
४७२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० ७७-७८.]
संबन्धे त्वनेनैव । गोस्वामी, पृथिवीश्वरः, विद्यादायाद इत्यादिषु त्वयत्नजा शेष एव षष्ठी। 'स्वामीश्वरा'-[२. २. ६८.] दिसूत्रस्य नित्यं षष्ठीप्राप्तौ पक्षे सप्तमीविधानार्थत्वात् । संघस्य भद्र भूयात्, शासनस्य भद्र भूयादित्यादौ त्वाशिषि षष्ठयाः समासो न भवति, असामर्थ्यात् अनभिधानाद्वा। नहि संघभद्र भूयादित्युक्त संघस्य भद्रं भूयादित्यर्थः 5 प्रतीयते, अपि तु संघभद्र नाम संघसंबन्धितया प्रसिद्धं किंचिद्भद्रं कस्य चिद्भूयादिति ।। ७६ ।।
न्या० स०--षष्ठ्यय०। प्रयत्नान्न चेदिति तुल्यार्थयोगे यत्नजाया अपि षष्ठ्याः समासो भवति, तुल्यार्थानां याजकादिदृष्टे: । गमकत्वादिति अवश्यसापेक्षत्वादित्यर्थः । मनुष्याणामित्यादिषु त्रिषु योगेष्वपादानपञ्चमीप्रसक्तौ 'सप्तमी चाऽविभागे'10 [२. २. १०६.] इति षष्ठी। असामर्थ्यादिति तत्त्वं भूयादिति सापेक्षत्वात् । अनभिधानेति अभिधानलक्षणा हि कृत्तद्धितसमासा भवन्तीति न्यायात् विवक्षितार्थाप्रतिपादनात् ।। ३. १.७६ ।।
कृति ॥ ३. १. ७७ ॥
'कर्मणि कृतः' [२. २. ८३.] 'कर्तरि' [२. २. ८६.] इति च या15 कृति कृत्प्रत्ययनिमित्ता षष्ठी विहिता तदन्तं नाम नाम्ना समस्यते, तत्पुरुषश्च समासो भवति । सिद्धसेनकृतिः, गणधरोक्तिः, इध्मव्रश्चनः, पलाशशातनः, धर्मानुस्मरणम्, तत्त्वानुचिन्तनम्, सर्पिर्ज्ञानम्, एधोदकोपस्करणम्, चौरोज्जासनम् ।। ७७ ॥
न्या० स०--कृति। चौरोज्जासनमिति 'कर्मणि कृतः' [ २. २. ८३. ]20 'कर्त्तरि' [२. २. ८६.] वाऽस्या विधानात् यत्नजाया अपि षष्ठ्याः समासः ।। ३. १. ७७ ।।
याजकादिभिः ॥ ३. १.७८ ॥
षष्ठ्यन्तं नाम याजक इत्येवमादिभिर्नामभिः सह समस्यते, तत्पुरुषश्च समासो भवति । ब्राह्मणानां याजक:-ब्राह्मणयाजकः, एवं गुरुपूजकः, याजक,25 पूजक, परिचारक, परिवेषक, स्नापक, अध्यापक, आच्छादक, उन्मादक,