________________
[पा० १. सू०७४-७६.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ४७१
क्तेनासत्त्वे ॥ ३. १. ७४ ॥
असत्वे वर्तमाना या पञ्चमी तदन्तं नाम क्तप्रत्ययान्तेन नाम्ना सह समस्यते, तत्पुरुषश्च समासो भवति । स्तोकान्मुक्तः, अल्पान्मुक्तः, कृच्छान्मुक्तः, कतिपयान्मुक्तः, दूरादागतः, विप्रकृष्टादागतः, अन्तिकादागतः, अभ्याशादागतः, कृच्छाल्लब्धम्, 'असत्वे डसेः' [३. २. १०.] इत्यलुप् । क्त नेति किम् ? 5 स्तोकान्मोक्षः । असत्वे इति किम् ? स्तोकात् वद्धितः-स्तोकाद्रव्यादित्यर्थः, एवमल्पात् प्रवृद्धम् । समासे तद्धिताद्युत्पत्तिः फलम्-स्तोकान्मुक्तिः इत्यादि ।। ७४ ।।
पराशतादिः ॥ ३. १. ७५ ॥
परःशतादिः पञ्चमीतत्पुरुषः साधुर्भवति । शतात्परे-परःशताः,10 सहस्रात्परे-परःसहस्राः, लक्षाल्लक्षाया वा परे परोलक्षाः-परशब्दस्य पूर्वनिपातः सकारागमश्च निपातनात् । परशब्देन समानार्थः परस्शब्दः सकारान्तोऽप्यस्तीत्यन्ये ।। ७५ ।।
षष्ठययत्नाच्छेथे ॥ ३. १. ७६ ॥
शेषे या षष्ठी तदन्तं नाम नाम्ना सह समस्यते, तत्पुरुषश्च समासो15 भवति । अयत्नात्-न चेत् स शेषो 'नाथः' [२. २. १०.] इत्यादेयत्नाद्भवति । राज्ञः पुरुषः-राजपुरुषः, यतिकम्बलः, राज्ञो गोक्षीरं राजगोक्षीरम्, राजगवीक्षीरम् । ऋद्धस्य राज्ञः पुरुषः, जिनभद्रगणेः क्षमाश्रमणस्य भाष्यमित्यादौ सापेक्षत्वान्न भवति । कथं देवदत्तस्य गुरुकुलम् ? जिनदत्तस्य दासभार्येति, सापेक्षत्वेऽपि गमकत्वाद्भवति । अयत्नादिति किम् ? सर्पिषो20 नाथितम्, मातुःस्मृतम्, सर्पिषो दयितम्, मातुरीशितम्, एधोदकस्योपस्कृतम्, चौरस्य रुग्णम्, चौरस्योज्जासितम्, शतस्य द्यूतम्, शतस्य द्यूतश्चैत्रः, कटकरणस्यायुक्तः शेष इति किम् ? सर्पिषो ज्ञानम्, रुदतः प्रवजितः, मनुष्याणां क्षत्रियः शूरतमः, गवां कृष्णा संपन्नक्षीरतमा, अध्वगानां रथगामी शीघ्रतमः । कथं सर्पिर्शानम् ? मातृस्मरणमित्यादि, कृद्योगेऽत्र षष्ठीत्युत्तरेण भविष्यति,25