________________
४७० ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० १. सू० ७२-७३.]
इत्यादि सिद्धम् । कृत्यप्रत्ययान्तं चेह पठ्यते-देवदेयम्, ब्राह्मणदेयम्, वरप्रदेया कन्या, इह न भवति ब्राह्मणाय दातव्यम् ।। ७१ ।।
न्या० स०--हितादि०। गोम्यो हितमिति 'हितसुखाभ्याम्' [ २. २. ६५. ] इत्यनेन चतुर्थी, पाशीविवक्षायां तु तद्भद्रायुष्य' [२. २. ६६.] इति आशंसायां हितयोगे या चतुर्थी तदन्तस्य समासो न भवति समासादाशिषोऽनवगमादिति । प्रात्मने- 5 पदमिति पचत इत्येवमादीनामात्मा स्वभावस्तदर्थं पदं ते आते इत्यादिना आत्मनेपदम् । तिवाद्यवयवापेक्षया प्रकृतिप्रत्ययसमूदायः पचतीत्यादिलक्षणः परोऽर्थस्तदर्थं तिवादिकं पदं परस्मैपदम् ।। ३. १.७१ ।।
तदर्थार्थन ॥ ३. १. ७२ ॥
तस्याश्चतुर्थ्या अर्थो यस्य स तदर्थः, चतुर्थ्यन्तं नाम तदर्थेनार्थशब्देन10 नाम्ना सह समस्यते, तत्पुरुषश्च समासो भवति । पित्रे इदं-पित्रर्थं पयः, महदर्थं धनम्, उदकार्थो घटः, आतुरार्था यवागूः । 'उर्थो वाच्यवत्' इति वाच्यलिङ्गता, नित्यसमासश्चायम्, चतुर्थंव तदर्थस्योक्तत्वात् अर्थशब्दाप्रयोगे वाक्यासंभवात्, समासस्तु वचनाद्भवति । तदर्थेत्यर्थविशेषणं किम् ? पित्रेऽर्थः, मात्रेऽर्थः, तदर्थं धनमित्यर्थः ।। ७२ ।।
15
न्या० स०-तदर्था० । तस्याश्चतुर्थ्या अर्थो यस्य इत्युष्ट्रमुखादित्वाद् व्यधिकरणो बहुव्रीहिस्ततस्तदर्थश्चासावर्थश्चेति कर्मधारयः, यद्वा तस्या अर्थस्तदर्थस्तस्मिन् अर्थस्तेन तदर्थाऽर्थेन । समासस्त्विति पित्रर्थ इत्यादिसमासे अर्थशब्दप्रयोगः इत्यर्थः ।। ३. १. ७२ ॥
पञ्चमी भयायैः ॥ ३. १. ७३ ॥
20
पञ्चम्यन्तं नाम भयाद्यैर्नामभिः सह समस्यते, तत्पुरुषश्च समासो भवति । वृकाद्भयम्-वृकभयम्, एवं वृकभीतः, भयभीता। भय, भीत, भीति, भी, भीरु, भीलुक, निर्गत, जुगुप्सु, अपेत, अपोढ, मुक्त, पतित, अपत्रस्त इति भयादयः । प्राकृतिगणश्चायम्-तेन द्वीपान्तरानीतः, स्थानभ्रष्टः, तात्परः, तपरः इत्यादि सिद्धम् । बहुलाधिकारादिह न भवति । प्रासा25 दात्पतितः, भोजनादपत्रस्तः ।। ७३ ।।