________________
[पा० १. सू० ७०-७१.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ४६६
समासो भवति एकशब्दस्य चादन्तो भवति। एकेन नविंशतिः-एकानविंशतिः, पक्षे एकानविंशतिः, एवमेकान्नत्रिंशत्, एकाद्नत्रिंशत्, एकान्नचत्वारिंशत्, एकाद्नचत्वारिंशत् । नविंशत्यादिनेति निर्देशात् 'नत्रत्' [३. २. १२५.] न भवति ।। ६६ ।।
न्या० स०--नविंशत्यादिनै०। नजत् न भवतीति 'नत्रव्ययात् संख्याया ड:' 5 [ ७. ३. १२३. ] इत्यपि न भवति, विधानसामर्थ्यात् 'लुगस्य' [ २. १. ११३ ] इत्यादिना अलोपो न भवति, अन्यथा तू इति कुर्यात् इति ॥ ३. १. ६६ ॥
चतुथी प्रकृत्या
॥ ३. १. ७०
॥
प्रकृति:-परिणामि कारणम्, चतुर्थ्यन्तमर्थाद्विकृतिवाचि नाम प्रकृतिवाचिना नाम्ना सह समस्यते, तत्पुरुषश्च समासो भवति । यूपाय10 दारु-यूपदारु, कुण्डलहिरण्यम् । प्रकृत्येति किम् ? रन्धनाय स्थाली, अवहननायोलूखलम्, मूत्राय संपद्यते यवागूरित्यादौ तु विकारस्याप्रधानस्य संपद्यते इत्यादिक्रियासापेक्षत्वात् न भवति ।। ७० ।।
न्या० स०--चतुर्थी०। प्रक्रियते परिणामरूपतयेति वा प्रकरोति कार्यमिति वा बाहलकात क्तिः, प्रक्रियादिति वा 'तिक्कृतौ नाम्नि' [५.१.७१. 1। प्रका परिणामि इत्यत्र तेन रूपेण यूपादिलक्षणेन भवनं तद्भावः परिणामः सोऽस्याऽस्तीति । रन्धनाय स्थालीति । यथा यूपाद्यात्मना दादि प्रतिष्ठमानं यूपादेः प्रकृतित्वेन विज्ञायते, नैवं रन्धनादेः स्थाल्यादीनि । मूत्राय संपद्यते इति यद्यप्यार्थ्या विधेयतया मूत्रस्य प्राधान्यं तथापि शाब्द्या प्रथमं यवाग्वा सह क्रियासंबन्धः । यथा राज्ञः पुरुष इति प्रार्थ्या राज्ञः प्राधान्येऽपि शाब्द्या पुरुषस्यैव इति अप्राधान्यं । ततश्च अप्रधानसापेक्षे समासो20 न भवति, प्रधानसापेक्षे तु भवत्येव ।। ३. १. ७० ।।
हितादिभिः ॥ ३. १.७१ ॥
चतुर्थ्यन्तं नाम हितादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति । गोभ्यो हितं-गोहितम्, एवं गोसुखम्, गोरक्षितः, हित, सुख, रक्षित, बलि, इति हितादयः । प्राकृतिगणनायम्-तेन अश्वघासः, श्वश्रूसुरा, श्वश्रूसुरम्,25 हस्तिविधानम्, धर्मनियमः, धर्मजिज्ञासा, नाटयशाला, आत्मनेपदम्, परस्मैपदम्